________________
प्रमाणप्रकरणम्
आह्निकम् ]
स वेगगतियोगित्वादागच्छति यतो यतः । श्रोता ततस्ततः शब्दमायान्तमभिमन्यते ॥ स तु शङ्खादिसंयोगप्रेर्यमाणः समीरणः । शब्दस्यावर्णरूपस्य भवति व्यक्तिकारणम् ॥ शब्दो यद्यप्यवर्णात्मा श्रोत्रग्राह्यो न विद्यते।
तथापि तत्र शब्दत्वं श्रवणेन ग्रहीष्यते। तदिह न काचिदस्माभिरधिका कल्पना कृता, मारुतगतेरस्याः सर्वलोकप्रसिद्धत्वात् कर्णाकाशसंस्कारमात्रमदृष्टं कल्पितम्, तदपि कार्यार्थापत्तिगम्यत्वान्नापूर्वमिति ।
अपक्षपातिनः सभ्याः सत्यमुत्पत्त्यपेक्षया।
शब्दस्य कल्पनामाहुरभिव्यक्तौ लघीयसीम् ॥ तदेवमभिव्यक्तिपक्षे नियतग्रहणोपपत्तेः प्रत्यभिज्ञाप्रत्ययप्रामाण्यान्नित्यत्वमेवोपगन्तव्यम् ।
या त्वनैकान्तिकत्वोक्तिः धीकर्मप्रत्यभिज्ञया। प्रत्यक्षे चोद्यमानासौ दर्शयत्यतिमूढताम् ।
- शब्दो यद्यप्यवर्णात्मेति । अयमाशयः। यथा गादयो वर्णा वर्णान्तरविलक्षणेन प्रातिस्विकेन रूपेण श्रोत्रप्रत्यये प्रतिभासन्ते नैवं भेर्यादिषु शब्देषु शब्दत्वमात्रव्यतिरेकेणान्यस्य कस्यचिद् उपलब्धिरिति ।
या त्वनैकान्तिकत्वोक्तिरिति । पञ्चकृत्वो गोशब्द उच्चरित इत्यादि यत् प्रत्यभिज्ञानमुक्तं तन्न नित्यत्वसाधनायानुमानत्वेनापि त्वनित्यत्ववादिनामुना प्रत्यभि- 20 ज्ञारूपेण प्रत्यक्षेण विरुद्धतोद्भाव्यते; अनैकान्तिकत्वादयश्चानुमानदोषा न प्रत्यक्षे उद्भावयितुं युज्यन्त इति भावः।
अथ मा भूत् प्रकृते दूषणम्, यथा पुनरनुमानं प्रत्यभिज्ञाबाधितत्वाच्छब्दानित्यत्वसाधकं प्रत्यक्षविरुद्धत्वेन न प्रमाणम्, तथा बुद्धिकर्मणोरप्यनुमानमनित्यत्वसा