________________
३०२ न्यायमञ्जयां
[ तृतीयम् श्रोतृसंख्यानुसारेण न नानावर्णसंभवः । वक्तुस्तुल्यप्रयत्नत्वाच्छोतृभेदे तदत्यये ॥ तदलं परिहासस्य महतो हेतुभूतया।
नग्नक्षपणकाचार्यप्रज्ञाचातुर्यचर्चया ॥ शाक्यप्रायास्त्वाचक्षते अप्राप्त एव शब्दः श्रोत्रशक्तया गृह्यते इति, तदेतदतिव्यामूढभाषितम्, अप्राप्त्या तुल्यतायां दूरव्यवहितादीनामश्रवणकारणाभावात्, प्राप्यकारिताख्यकर्मधर्माप्रसङ्गाच्च, न च चार्वाकवदपरीक्षित एवायमर्थ उपेक्षितुं युक्तः। शब्दाभिव्यक्तिसमर्थनम्
इति कार्यत्वपक्षेऽमः श्रुतास्तार्किककल्पनाः।
अथाभिव्यक्तिपक्षेऽस्य शृणु श्रोत्रियकल्पनाम् । विवक्षापूर्वकप्रयत्नप्रेर्यमाणस्तावद् वेगवत्तया क्रियावत्तया च कोष्ठयो बहिनिःसरति समीरण इति सुस्पष्टमेतत् । प्रत्यक्षपवनवादिनां पक्षे पवनसमये
वक्तृवदननिकटनिहितहस्तस्पर्शेनैव स उपलभ्यते । अनुमेयमारुतपक्षेऽपि तदानी5 मास्यसमीपसन्निधापिततूलककर्मणा सोऽनुमीयते।
स गच्छन् सर्वतोदिक्कः स्तिमितानिलनोदनम् । करोति कर्णाकाशे च प्रयाति श्रुतियोग्यताम् ॥ स च प्रयत्नतीव्रत्वमन्दत्वेन तदात्मकः । शब्दे तथाविधज्ञप्तिहेतुतामवलम्बते ॥ स चैष गच्छन्नुद्दामवेगयोगाहितक्रियः । शरवद् वेगशान्त्यैव न दूरं गन्तुमर्हति ॥ स मूर्तः प्रसरन् मूर्तरपरः प्रतिरुध्यते । कुडयादिभिरितो नास्य श्रुतिळवहितात्मनः ॥
अप्राप्त एवेति । महाभूतक्षोभजः शब्दस्तत्रस्थ एव गृह्यते श्रोत्रेण, श्रोत्रस्य 25 हि तद्गुणादेव तादृशी शक्तिः कल्प्यते; यथा अयस्कान्तमणेर्दूरस्थस्याप्ययसः समा
कर्षिका शक्तिदर्शनादेव कल्प्यते तद्वदस्येति भावः।