________________
प्रमाणप्रकरणम्
आह्निकम् ]
३०१ वायौ शब्दानुकूले च न तस्य श्रवणं भवेत् ।
गच्छन्त्याः प्रतिकूलो हि श्रोत्रवृत्तः स मारुतः ॥ दूरेऽपि शब्दस्य श्रवणं यद् दृष्टं प्रतिवातञ्च निकटेऽपि यदश्रवणं तदस्मिन् पक्षे विपरीतं स्यात् ।
वृत्तिवृत्तिमतो दो नास्तीतीन्द्रियवद्भवेत्।
व्यापिका वृत्तिरित्येवं कथं सर्वत्र न श्रुतिः ॥ आर्हतास्त्वाहुः सूक्ष्मः शब्दपुद्गलरारब्धशरीरः शब्दः स्वप्रभवभूमेः निष्क्रम्य प्रतिपुरुषं कर्णमूलमुपसर्पतीति तदेतदतिसुभाषितम् ।
वर्णस्यावयवाः सूक्ष्माः सन्ति केचन पुद्गलाः। तैर्वर्णोऽवयवी नाम जन्यते पश्य कौतुकम् ॥ तेषामदृश्यमानानां कीदृशो रचनाक्रमः । केन तत्संनिवेशेन कः शब्द उपजायताम् ॥ लघवोऽवयवाश्चैते निबद्धा न च केनचित् । न चैनं कठिनं कतु वर्णावयविनं क्षमाः॥ कृशश्च गच्छन् स कथं न विक्षिप्येत मारुतः। दलशो वा न भज्येत वृक्षाद्यभिहतः कथम् ॥ प्रयाणकावधिः कश्च गच्छतोऽस्य तपस्विनः। एकश्रोत्रप्रविष्टो वा स श्रूयेतापरैः कथम् ॥ निष्क्रम्य कर्णादेकस्मात् प्रवेशः श्रवणान्तरे। यदीष्येत कथं तस्य युगपद् बहुभिः श्रुतिः॥
गच्छन्त्याः प्रतिकूलो होति । यस्यां दिश्युत्पन्नः शब्दस्तत्र श्रोत्रवृत्तिान्ती तद्दिगागतेन वायुना प्रतिहन्येत।
यत्र शब्द उत्पन्नस्तत आगच्छन् शब्दानुकूलो वातोऽनुवातः शब्ददेशं पुनगच्छन् प्रतिवातः।
सूक्ष्मः शब्दपुद्गलैः शब्दपरमाणुभिः । निबद्धा न च केनचिदिति । उदकादिना कृतमीलना इत्यर्थः ।