________________
[ २० ] दिशः श्रोत्रमित्यत्र श्रुतिवाक्यमन्यपरमिति मूलं तस्य तत्तदभिमानिदेवतापरमिति बृहदारण्यकभाष्ये श्रीशङ्कराचार्याः । तत्तदभिमानिदेवतास्तत्तदिन्द्रियाण्यधिष्ठाय जीवस्योपकुर्वन्ति जीवदवस्थायाम् । मरणकाले चोपकारो निवर्तत इत्यर्थः।
( ४५ ) योगिप्रत्यक्षस्य भट्टेन निरस्तस्य भट्टजयन्तेन व्यवस्थापनं वेदान्तिमतस्थोपोबलकम् । देवताधिकरणभाष्ये 'धर्मोत्कर्षवशाद् व्यासादयो देवादिभिः प्रत्यक्ष व्यवजह रिति श्लिष्यते' इत्युक्तेः प्रत्यक्षधर्माण इति महाभाष्यञ्च । तत्र देवादिभिरित्यनेन धर्मादेरपि ग्रहणादिन्द्रियागोचरत्वस्य समानत्वात् । भट्ट; बौद्धनिराकरणाय' शब्ददेवतावादोऽङ्गीकृतोऽतो योगिनिराकरणं शरीरादिविशिष्टदेवताया अभाववत् तत्प्रत्यक्षनिराकरणञ्च सङ्गच्छते (पृ० १६३)।
__चतुर्णामपि वेदानां तथा वेदान्तर्गतविधिमन्त्रार्थवादनामधेयानां च प्रामाण्यं मीमांसकरीत्यैवोपपाद्य शैववैष्णवाद्यागमानामपि प्रामाण्य नुपपादयति श्रीजयन्तभट्टः । तथाहि-जैमिनिना स्मृतीनां पुराणानां च वेदमूलकतया प्रामाण्यमभ्यधायि स्मृतिपादे धर्मस्य शब्दमूलत्वादित्यादिना। वेदः ईश्वरोच्चरितः अस्मिन् न्यायमते । अपौरुषेय इति तु जैमिनिमते इति भेदे सत्यपि स्मृतिप्रामाण्योपपादनप्रकारः श्रीजयन्तभट्टन विशेषप्रशंसामर्हति । अयं हि महाजनपरिग्रहात् स्मृतीनां मनुयाज्ञवल्क्यादिप्रणीतानां प्रामाण्यमिच्छति । के महाजनाः ? ये वेदोक्तं चातुर्वर्ण्य चातुराश्रम्यं चाङ्गीकुर्वन्ति, ते सर्वे महाजनाः । शैवाः वैष्णवाः शाक्ताः सांख्या योगाः इत्यादयोपि महाजना एव वेदपरिग्रहाद् वर्णाश्रमादिप्रामाण्याभ्युपगमाच्च। तेषु परस्परविरोधः कथ सुपपद्यते इति चेत्, उच्यते, वेदेऽपि परस्परविरोधो दृश्यते उदितानुदितहोमादी अधिकारिभेदाच्च परिह्रियते। एवं शैवाद्यागमानामपि व्यवस्थिताधिकारिभेदाद् न विरोधः । अत एव व्याससूत्रेष्वपि विज्ञानादिभावे वा तदप्रतिषेध इति व्याचख्यौ पुण्डरीकाक्षाचार्यः इत्याह ।
श्रीशङ्कराचार्याणामप्ययमेवाभिप्रायो दृश्यते येन त्वंशेन वेदैः न विरुध्यते तदंशे तेषां प्रमाण्याभ्युपगमात्' इति तैरभ्युपगमात् ।
अत एव 'एतेनयोगः प्रयुक्तः इति बादरायणसूत्रस्थं येन त्वंशेन न विरुध्यते तेनेष्टमेव सांख्ययोगस्मृत्योः प्रामाण्यं इति भाष्यं व्याकुर्वता भामतीकारेण 'न च