________________
[ २१ ] तदप्रमाणं प्रधानादौ प्रमाणं च यमादौ इति वाचं तत्राप्रामाण्ये अन्यत्राप्यप्रामाण्यात् तदुक्तं-'प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः। नाभिद्रवन्ति ते तावत् पिशाचा वा स्वगोचरे' इति न्यायेनान्यत्रा'यप्रामाण्यापातात् । अतः यत्र वेदविरोधस्तत्र तेषां तात्पर्य नेत्येव वक्तव्यमित्युक्त्वा सांख्ययोगादीनां प्रामाण्यं समर्थितम् । तन्नयायेनैव शैवाद्यागमानामपि प्रामाण्यं रक्षणीयम् । तथाहि शैवैः पाञ्चरात्रस्य गौतमादिशापग्रस्तैरेव परिग्रहात् वेदविरुद्धत्वाद् वेदनिन्दापरत्वाच्च अप्रामाण्य मुच्यते । वैष्णवपाञ्चरात्रिकैः तामसेन शिवेनोक्तत्वात् तदप्रामाण्यमुच्यते। परं तुभयोः वेदप्रामाण्यवादिशिष्टैरभ्युपेतत्वाद् उभयोः प्रामाण्यमङ्गीकार्यमेव अवान्तरविशेषस्तु न तात्पर्यविषयः तदंशे न प्रामाण्यमुच्यते। एवमाशिकप्रामाण्यवादिपक्षं समर्थयन् सर्वांशेऽपि प्रामाण्यमस्त्येव यत्र विरुध्यते वेदेन तत्र तात्पर्य तद्ग्रन्थस्य नास्तीत्यत्र तात्पर्यमिति समर्थयामास । अनयैव रीत्या जयन्तभट्टः पाञ्चरात्रशैवाद्यागमानामपि प्रामाण्यं समर्थयते महाजनपरिग्रहादेव प्रामाण्यमभ्युपगच्छन् इति ।
वाराणस्याम् अक्षयतृतीयायाम, वि० सं० २०३९
विदुषां वशंवदः सम्पादकः