________________
[ १६ ] ग्राहित्वात् प्रत्यभिज्ञायास्तद्विशेषणस्य चार्थस्य बाह्येन्द्रियग्राह्यत्वानुपपत्तेः । स्तम्भादावपि मानसी प्रत्यभिज्ञेति । वेदान्तिमते तु सोऽयं देवदत्त इत्यादि प्रत्यभिज्ञायां वृत्तिद्वयम्, 'स' इत्यंशे स्मृतिः 'अयम्' इत्यंशे प्रत्यक्षमंशद्वयावच्छिन्नञ्चैतन्यात्मकं ज्ञानन्त्वेकमिति व्यवहारः (पृ० ३१८)।
( ४३ ) पदस्य वाक्यस्य चानित्यत्वं तार्किकाणां मीमांसकानाञ्च सम्मतमेव । वर्णानान्तु मीमांसका नित्यत्वं वदन्ति । आनुपूर्वीविशिष्टवर्णस नुदायः पदं तस्याश्चानुपूर्व्याः क्षणघटितत्वेनानुपूर्वीविशिष्टवर्णानामनित्यत्वमाहुस्तदुक्तं भट्टः–'यत्लतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता' इति । वेदनित्यत्वं न स्थापनीयमपि तु वेदे पौरषेयत्वनिरासपूर्वकमपौरुषेयत्वमेव स्थापनीयमिति। तार्किकमते तु वर्णानामप्यनित्यत्वमेव तदिदं लाघवगौरवविचारेण वर्णानामनित्यत्वाङ्गीकारे लाघवमिति ग्रन्थे निर्धार्यते । वेदे उभयसिद्धप्रमाणग्रन्थे वाऽस्य विषयस्याविचारणादित्याह ।
___ वस्तुतस्तु, जैमिनिः 'नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्' इति सूत्रे शब्दस्य नित्यत्वमाह तेन वर्णनित्यत्वं सिद्धयति । बादरायणोऽपि ब्रह्मसूत्रेषु 'अत एव च नित्यत्वमिति वेदनित्यत्वं सूत्रयाम्बभूव। शब्दानित्यत्वपक्ष एव च गौरवं बहूनां शब्दानां क्षणिकानामुत्पत्तिः प्रागभावा ध्वंसाश्चानन्ताः कल्पनीयअस्मिन् मते इति विभावनीयम् (पृ० ३१०)।
कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रमिति तार्किकाः। भट्टस्तु 'दिशः श्रोत्रमिति श्रुत्या मृतस्य श्रोत्रं दिशि व्यलीयत इत्युक्तेश्श्रोत्ररूपाधिष्ठानमेवोपादानं तच्च दिगिति वदति । जयन्तभट्टस्तु 'दिशां कार्यान्तराक्षेपादागमान्यपरत्वतः आहोपुरुषिकामात्रं दिग्द्रव्यश्रोत्रकल्पनमिति ब्रवीति । तार्किकोक्तमभ्युपेत्य श्रोत्रस्य दिशि लय व्यवहारोऽन्यथा नेतव्यः।
__ ऐतरेयेऽपि 'श्रोत्रादिशः समभवन्' इत्यपि वर्ततेजो जयन्तोक्तं स्वमतपक्षपातेनेति मन्तव्यम्।
वस्तुतस्तु दीधितिकारोक्तरीत्या आकाशकालदिशामीश्वरेऽन्तर्भावाद्दिङ्नाम द्रव्यान्तरं नास्त्येवेति मन्तव्यम् । वेदान्तिनस्तु अविद्यैवाथवाऽविद्याचित्सम्बन्ध एव कालो दिगप्यविद्याचित्संबन्ध एवेति न पृथग् द्रव्यान्तराभ्युपगमः।