________________
[ १८ ]
( ४० ) ख्यातिविवेचनप्रसङ्गे मीमांसकैकदेशिमतखण्डनार्थमुपवर्णयति श्रीजयन्तभट्टः ।
इदं रजतमिति भ्रमे सत्यरजतप्रतीतिवदवभास्यरजतसद्भावाल्लौकिकालौकिकत्वे तु विशेषः । रजतज्ञानावभास्यं हि रजत मुच्यते तच्च किञ्चिद् व्यवहारप्रवर्तकं किञ्चिन्नेति । तत्र व्यवहारप्रवर्तकं लौकिकमुच्यते ततोऽन्यदलौकिकमिति । यच्च शुक्तिकाशकलमियुच्यते तदलौकिकं रजतं रजतज्ञानावभास्यत्वाद्रजतं तद्वयवहाराप्रवृत्तेरलौकिकमिति ।
इदं मतं वेदान्त्यभिमतप्रातिभासिकरजताभ्युपगममनुसरति; परन्तु नेदं वेदान्तिमतम् (पृ० २६३)।
( ४१ ) यद्यपीश्वरेऽनुमानमेव प्रमाणम् तथापि तदीयसर्वज्ञत्वादौ निखिलप्रपञ्चस्रष्टुत्वान्यथानुपपत्तिः प्रमाणम्। वेदानामीश्वरोच्चरितत्वे तु 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च पहिणोति तस्मै' इत्यादि वेदवाक्यमेव प्रमाणम् । ईश्वरज्ञानं प्रत्यक्षमजन्यमेव तस्य शरीराद्यभावादिन्द्रियार्थसन्निकर्षाद्यभावान्न जन्यं प्रत्यक्षं 'अजनकानामेवार्थानां सवितृप्रकाशेनेव ग्रहणात् । ईश्वरस्य भावनाख्यसंस्कारेण न प्रयोजनं सर्वदा सर्वार्थदर्शित्वेन स्मृत्यभावात् । एवं सत्यतीतादिकं यन्न्यायरीत्या सूक्ष्मरूपेणापि न वर्तते तज्ज्ञानं तस्येदानीमुपपादयितुमशक्यम्।ततश्चातीतधर्मादेस्तस्य स्मरणानभ्युपगमात् तस्य वर्तमानकाले ज्ञानं दुर्लभम् । ततश्व तत्फलं कथं दास्यतीति प्रश्नो वर्तते । जयन्तभट्टस्तु, प्रजापतेर्जन्येच्छा प्रजायते इत्यभ्युपगच्छन् तस्यैव कर्मफलदातृत्वं सूचयति । अत्रेश्वरस्य भूतानुग्रहाद्धर्मो नित्यः। आनन्दश्चेत्याभ्युपगच्छति । नव्यन्यायग्रन्थेषु ज्ञानेच्छाप्रयत्ना एवेश्वरस्य विशेषगुणा इति लिख्यते । तत्तत्कर्मानुसारेण फलं प्रयच्छत ईश्वरस्य धर्मेण प्रयोजनं न दृश्यते। धर्मस्य सुखजनकत्वन्तु नेष्यत ईशस्य नित्यसुखाभ्युपगमात् । अपि च धर्मस्य फलदात्रन्तराभावात् किमर्थो धर्म इति प्रश्नो वर्तते (पृ० २८२)।
(४२) . एकं सर्वाभ्युपगतं स्मर्यमाणानुभूयमानसामानाधिकरण्यग्राहिणी प्रत्यभिज्ञा संस्कारसहितेन्द्रियजन्येति, अपरं प्रत्यभिज्ञायास्स्मर्यमाणपूर्वज्ञानविशेषितार्थ