________________
[ १७ ]
( ३८ ) शब्दस्यानुमानेऽन्तर्भाव वदतो वैशेषिकस्य सुगतस्य च समाधान मुच्यते ।
द्विविधश्णब्दः पदात्मा वाक्यात्मा चेति । तत्र पदस्य पदार्थसम्बन्धग्रहणापेक्षया पदार्थस्मारकत्वेऽपि वाक्यस्य वाक्यार्थज्ञानजनकत्वन्न सम्बन्धापेक्षम्, पदार्थज्ञानवतो झटिति वाक्याद्वाक्यार्थज्ञानसम्भवात् । पदेन पदार्थस्मरणे सम्बन्धापेक्षत्वेऽपि विषयभेदात् सामग्रीभेदाच्च भेद एव, पक्षधर्मव्याप्तयादिसापेक्षमनुमानम् । शब्दस्तु निरपेक्ष इति भेदाः । शब्दे वाच्यवाचकभावसम्बन्धापेक्षा, अनुमाने लिङ्गिलिङ्गसम्बन्धापेक्षेति वैषम्यम् ( पृ० २२१)।
( ३९ ) ___ स्वतःप्रामाण्यवादिनं परतःप्रामाण्यावादी एवं दूषयति । दूरे जलं दृष्ट्वा इदं जलमिति ज्ञाने जाते पश्चात् पूर्वोत्पन्नं जलज्ञानं प्रमा न वेति संशयोजायते, यदि स्वत एव प्रामाण्यज्ञानं तदा संशयानुपपत्तिरतः परतोऽनुमानात् प्रामाण्यज्ञानं सम्पादनीयम्, तत्र हेतुस्समर्थप्रवृत्तिजनकत्वादिति. एवञ्चानुमानादेव प्रामाण्यग्रह इति । तच्च स्वतःप्रामाण्यवादी खण्डयति ! यदि परतःप्रामाण्यं ज्ञायेत, तदा सफलप्रवृसिजनकत्वज्ञानस्य प्रामाण्यं तदुत्तरोत्पन्नप्रामाण्यानुमित्येति वक्तव्यम् । एवं तज्ज्ञानप्रामाण्यं हेत्वन्तरेण ग्राह्यमित्यनवस्थेति । अत्र परतःप्रामाण्यवादी जयन्तभट्टः समाधानमाह
___ अपरीक्षणीयप्रामाण्यत्वादर्थक्रियाज्ञानस्य । प्रवर्तकं सर्वज्ञानं न परीक्षणीयप्रामाण्यं वर्तते फलज्ञाने तु सिद्धप्रयोजनत्वात् प्रामाण्यपरीक्षापेक्षौव नास्तीति कुतोऽनवस्था। प्रवर्तकं हि प्रथम नुदकज्ञानमविद्यमानेऽपि नीरे मिहिरमरीचिषु दृष्टमिति तत्र संशेरते जनाः। अर्थक्रियाज्ञानन्तु सलिलमध्यत्तिनाम्भवत्तदविनाभूतमेव भवतीति न तत्र संशयस्तदभावान्न तत्र प्रामाण्यविचार इत्यादि। ___ श्रीवाचस्पतिमिश्रास्तु दृष्टार्थमन्त्रायुर्वेदप्रामाण्यं प्रवृत्तिसामध्येंनावधार्य तज्जातीयस्यादृष्टार्थस्य वेदस्य विनापि प्रवृत्तिसामर्थ्यं प्रामाण्यावधारणमाप्तोक्तत्वेनेति वेदस्येश्वरोक्तत्वेन प्रामाण्यं समर्थयन्तोऽपि अनुमानस्य प्रवृत्तिसामर्थ्यलिङ्गजन्मनो निरस्तसमस्तव्यभिचारंशङ्कस्य स्वत एव प्रामाण्यमव्यभिचारिलिङ्गादिति वदन्तः केषाञ्चिज्जनानां स्वतःप्रामाण्याभ्युपगमेन सर्वत्र स्वतःप्रामाण्यवादस्य मार्ग प्रदर्शयन्ति ।