________________
[ १६ ]
यता । संयोगविभागालम्बनत्वे संयुज्यत इति प्रतीत्या पातः तिष्ठत्यपि पुरुषे चलतोति धीः स्याद्वायुसंयोगादिसम्भवात् - इत्यादिना ( पृ० १९४ ) ।
( ३५ )
कालः प्रत्यक्ष इति मीमांसका वेदान्तिनश्चेति प्रथा । वस्तुतस्तु तार्किक - मतेऽपि काल: प्रत्यक्षः । जयन्तभट्टस्तु त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्रवत्वादीति प्रशस्तपादवचनमयुक्तम्, नेदं वैदिकवचनं यदनतिक्रमणीयम् । न च प्रत्यक्षत्वमप्रत्यक्षत्वं वा वचनेन निर्धारणीयम् । अपि तु यस्यैन्द्रियकप्रत्यक्षगोचरता तत्प्रत्यक्षं यस्य न तन्न प्रत्यक्षमित्येव नियमः ।
क्षिप्रादिप्रत्ययो ह्युद्धाटिताक्षस्य भवति तस्य तत् प्रत्यक्षमेव । स च द्रव्यविशेषणतयैव भासत इदानीं घट इत्यादी, न स्वातन्त्र्येण । एवं गुरुत्वमपि चाक्षुषम् । नेत्रपरिस्पन्दनादिक्रियाभेदः काल इति तु न युक्तम्, परिस्पन्देऽपि शीघ्र गच्छति शीघ्र धावति इति प्रतीतेः । चन्द्रसूर्यादिपरिस्पन्देऽपि चिरेणास्तंगतो भानुरिति शीतांशुश्शीघ्रः मुद्गत इत्यादि प्रयोगदर्शनात् ।
( ३६ )
अन्ये तु कालस्य घटाद्यतिरेकेणाग्रहणात् प्रत्ययातिशयस्य कालपरोक्षत्वेऽपि सम्भवात् कालो न प्रत्यक्षः । अप्रतिभासमानोऽपि काल इन्द्रियसंहकारेण संस्कारः प्रत्य भिज्ञामिव क्षिप्रादिप्रतीतिं जनयेदिति । युवस्थविरयोः परापरत्वस्य दिक्कृतपरापरत्वविलक्षणस्य काल एव हेतुः । काललिङ्गस्य युगपत् परोऽपर इत्यादिव्यवहारस्य सार्वत्रिकत्वात् कालो विभुरेकश्च । तस्य वर्तमानादिविभाग औपाधिकः । तत्र स्थाल्यधिश्रयणमारभ्य तदवतरणपर्यन्तः कालः पाकस्य वर्तमानकालः । अभिनिर्वृत्तफलावच्छिन्नोऽतीतः । अनारब्धफलावच्छिन्नो भविष्यत्कालः । एवमेव वसन्ताद्यूतूनां तिथीनाश्वोपाध्यवच्छेदात् तत्तद्वयवहारः ।
( ३७ )
मीमांसकाक्तोपमानस्यानुमानेऽन्तर्भावस्समर्थ्यते । गोसदृशो गवय इति वाक्यं श्रुत्वाऽरण्यं गतस्य गोसदृशं पिण्डं दृष्टवतो गोसदृशोऽयं गवय इति प्रथमं प्रतीति. पश्चादेतत्सदृशी मदीया गौरिति ज्ञानं सादृश्यदर्शननिबन्धनं स्मरणमेवेति ग्रन्थकाराभिप्रायः ।