________________
[ १५ ] तथापि न्यायमञ्जरीकारेण रसेन रूपानुमानादिकमेव दृष्टान्ततया लिखितमावश्यकञ्चेदमन्यथा कार्यकारणभावविरहिणां नित्यसहचारवतामेकेनापरानुमानस्य विलयापत्तेः । दीधितिकारैर्यत्तदोरननुगमादिना सामान्य मुखव्याप्तेनिरासाच्च । विशिष्टपरामर्शहेतुत्ववादिनां तदसम्भवाच्च। मीमांसकवेदान्तिमतयोस्तु सामान्यमुखव्याप्तिरिष्यत एव बहुलं प्रयुज्यते च । यथा 'न विलक्षणत्त्वादस्य तथात्वञ्च शब्दादित्यत्र पूर्वपक्षो जगन्न ब्रह्मप्रकृतिकं तद्विलक्षणत्वाद् यद्यद्विलक्षणतन्नतत्प्रकृतिक यथा पटो न मृत्प्रकृतिक इत्यादि । तथा उपसंहारदर्शनादित्यधिकरणे ब्रह्म न जगत्कारणमसहायत्वाद्यदसहायं न तत्कारणं यथा केवलदण्डो घटे इति ( पृ० १९२ )।
( ३३ ) पूर्ववत्-पूर्वसदृशं पूर्व प्रत्यक्षं तत्सदृशं महानसीयवह्निधूमसाहचर्यात् सिद्धिः पर्वतीयधूमात् पर्वतीयाग्नेः।
शेषवदिति परिशेषानुमानम् । तदितरविशेषाभावकूटवत्त्वे सति सामान्यवत्त्वहेतुना तन्मात्रानुमानम्। अथवा प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययश्शेषः । यथा धूमेनाग्निमात्रानुमाने किमिन्धनकोऽयमग्निरिति सन्देहे तृणपर्णकाष्ठादीनां प्रतिषेधे मृत्पाषाणादेरप्रसक्तत्वादयं गोमयेन्धनक इति । यथा शब्दोपलब्धौ श्रोत्राख्यं नित्यपरोक्षं करणम् । सामान्यतो दृष्टस्य परिशेषानुमानस्य चायं विशेषस्सामान्यतो दृष्टे इच्छादिकं शरीरादिव्यतिरिक्ताश्रितं शरीराद्यनाश्रितत्वे सति आश्रितत्वादिति । परिशेषे त्विच्छादेराश्रयत्वेन प्रसक्तानि शरीरेन्द्रियमनांसि निषिध्यन्ते दिक्कालयोन प्रसक्तिविशेषगुणत्वात् । तस्मादतिरिक्तात्मसिद्धिरिति । अपि च सामान्यतो दृष्टेऽतीन्द्रियं विषयोऽत्र तु प्रत्यक्षमेवेति (पृ० १९२ )।
( ३४ ) संयोगविभागातिरिक्तं कर्म नास्तीति भूषणकारमतम् । प्राभाकरा आहुश्चलतीति प्रत्ययेन देवदत्तस्वरूपातिरिक्ताप्रतिभासः। यदाह य एव देवदत्तात्मा तिष्ठन् प्रत्ययगोचरः चलतीत्यपि संवित्ती, स एव प्रतिभासत इत्यविरलोत्पत्तिकसंयोगविभागप्रबन्धविषयत्वाच्चलतति प्रत्ययस्य न सर्वदा समुत्पादः।
तदनुमानञ्चेत्थम्-कार्यस्य' कादाचित्कत्त्वेन कारणपूर्वकत्वाद् द्रव्यमात्रस्य कारणत्वेसर्वदा तदुत्पादप्रसङ्गाच्चलतीति प्रत्ययोत्पादकं किञ्चिद्वक्तव्यम् । तदेव कर्मेति ।
तदयुक्तम्-परिस्पन्दरूपस्य कर्मणश्चलत्यादिप्रतीतौ प्रत्यक्षत्वान्न नित्यानु