________________
[ १४ ]
(३०) अयं वृक्षश्शिशपात्वादिति तादात्म्यादनुमानं धूमाद्वह्नस्तदुत्पत्त्या इति बौद्धाः, नेदं युक्त वृक्षशिशपयोरभेदे शिशपाबुद्धौ वृक्षप्रतिभासप्रसङ्गात् । अप्रतिभासे तादात्म्याभावापत्तेः, प्रतिभासे किमनुमानेन, प्रत्यक्षत एव वृक्षत्वग्रहात् । वृक्षात्वग्रहणे सति विशेषानवभासात्, कदाचिदशिशपात्वानुमानापाताच्च।।
अपि च वृक्षत्वशिशपात्वयोरभेदाद् वृक्षत्वहेतुना शिशपात्वानुमानापत्तेः । यदि शिशपात्वे वृक्षत्वं प्रतिबद्धं न वृक्षत्वे शिशपात्वमित्यतोनोक्तापत्तिरित्युच्यते तदा नियम एवाङ्गीकृतो न तादात्म्यम् । अतश्शाक्यमतं न युक्तम्।
यदुक्त सामान्ये सिद्धसाध्यतेति तन्न, पर्वते वह्निमत्त्वस्यापूर्वस्य साध्यत्वात् । यदुक्त सर्वत्र सत्प्रतिपक्षसौलभ्यमिति तन्न, तेषामप्रयोजकत्वेन दुष्टत्वात् (पृ. १६९) ।
(३१) द्विविधमनुमानं किञ्चिदुत्पन्नप्रतीति, किञ्चिदुत्पाद्यप्रतीति । उत्पन्नप्रतीतिधूमेन वह्नयनुमानादि उत्पाद्यप्रतीतिरात्मेश्वरसर्वज्ञपरलोकादिगोचरम् । तदिदं न प्रमाणं केवलं श्रुतिसिद्धत्वात्तेषाम् (पृ. १८९ ) ।
(३२) न्यायभाष्ये तावदन्यत्र दृष्टस्यान्यत्र दर्शनं व्रज्यापूर्वकं दृष्टं ( यथा देवदत्तस्य ) तथादित्यस्य। एवं यथा प्रत्यक्ष लिङ्गलिङ्गिनोस्सम्बन्धे केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यत इति द्विधोदाहरणं न्यगादि। नव्यन्यायग्रन्थेषु सामान्यमुखव्याप्तिरिति सिद्धान्तलक्षणे यो यदीययावद्विशेषाभाववान् सस्तत्सामान्याभाववान् यथा घटविशेषाभावकूटवद्भूतलं घटसामान्याभाववत्तथा संयो. गीययावद्विशेषाभाववान् वृक्षस्संयोगसामान्याभाववानिति सोदाहरणं सामान्यतो दृष्टमुक्तम् । अत्र च विशिष्टपरामर्शो न कारणमपि तु प्रकृतहेतुतुल्यहेतौ साध्यतुल्यसाध्यव्याप्तिज्ञानं कारणं प्रकृतहेतौ पक्षधर्मताज्ञानमात्रं कारणमित्युक्तम्, आदित्यगतिश्च न दृश्यते । प्रातः पूर्वस्यां दिशि दृष्ट आदित्यस्सायं पश्चिमे दृश्यतेऽतोऽप्रत्यक्षापि गतिरेष्टव्येति भाष्यमप्युक्तसामान्य मुखव्याप्तौ सङ्गच्छते, चैत्रे व्याप्तिग्रहणात् सूर्ये गत्यनुमानात्।