________________
पर्वतीयधूमदर्शनेनाग्न्यनुमानासम्भवात् । व्याप्तिग्रहसमये धूममात्रस्याग्निमात्रेण व्याप्तेगृहीतत्वात् तत्स्मरणमात्रेण प्रकृते न किमपि प्रयोजनम् । - साहचर्य व्याप्तिरित्युक्तौ शतकृत्वोऽपि साहचर्यदर्शने सति व्यभिचारदृष्टेः पार्थिवत्वलोहलेख्यत्वादौ वजमणौ।।
अविनाभावो भवन्नपि न ज्ञातुं शक्यो जगतीतलवृत्तिसर्वपदार्थज्ञानाभावात्, सर्वभूतभाविधूमाग्नीनामप्रत्यक्षत्वात्, धूमत्ववह्नित्वादिसामान्यं नेष्यते सामान्यस्यावस्तुत्वात् । बौद्धमते भूयस्सहचारदर्शनेऽन्यनग्नौ धूमो नास्तीति निश्चयाभावादनग्नौ धूमाभावश्चायोगिनां दुनिश्चयः । बलीयसा दुर्बलस्य बाधेऽनुमानविरोधः, उभयोस्समकक्षत्वे विरुद्धाव्यभिचारिताख्यसत्प्रतिपक्षः । अत एवोक्तम्
हस्तस्पर्शादिनाऽन्धेन विषमे पथि धावता। अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ (पृ० १७७ ) ।
. (२९) न तावदनुमानस्वरूपस्यैव निह्नवश्शक्यते कर्तुम्।।
अवलाबालगोपालहालिकप्रमुखा अपि ।
बुध्यन्ते नियतादर्थादर्थान्तरमसंशयम् । ___ अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा लोकयात्रेति ।
यद्दर्शनाद्यत्र प्रतीतिरुत्पद्यते तयोरर्थयोः कश्चित्सम्बन्धोऽवश्यं स्वीकार्योऽयमेवाविनाभावनियमो न तु तादात्म्यतदुतात्ती शाक्यसम्मते युक्ते। व्याप्तिग्रहणन्तु मनस्येव भवेदिति केचिदग्नित्वधूमत्वसामान्यलक्षणया सकलाग्निधूमग्रहणाद् व्याप्तिनिश्चय इति । ..: अपरे तु योगिप्रत्यक्षकल्पं सम्बन्धग्राहि प्रत्यक्षमाहुः। अन्ये तु भूयोदर्शनेनैव व्याप्तिर्गृह्यते व्यभिचारग्रहणे तु माऽतु व्याप्तिग्रह इत्यूचुः ।
- मीमांसकास्तु विपक्षे धूमदर्शनमद्ययावन्नास्ति, अनुत्पन्ने बाधके तदाशङ्कनमयुक्तमिति व्यतिरेकग्रहणमनावश्यकमाहुः । ग्रन्थकारस्तु तन्नेति खण्डयति व्यतिरेकदर्शनमन्तरेण व्याप्तेरग्रहादिति ।