________________
[ १२ ] प्रत्यक्षस्यापि भट्टरुक्तत्वात् 'रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते' इति । चिरस्थायित्वं भाविकालसत्त्वम्। यद् भट्टश्श्लोकवार्तिके योगिनां सर्वज्ञत्वं निराकारि तस्य प्रतिप्रसवोऽयम् ।
. (२६ सर्वज्ञविषये पूर्वपक्षः, सर्वज्ञता तेषामेकज्ञानेनोत बहुभिर्ज्ञानः, नाद्यः, परस्परविरोधिनामर्थानां शीतोष्णवदेकज्ञानविषयत्वाभावात् । नापि बहुभिनिर्ज्ञानानां योगपद्यनिषेधात् । क्रमेण तु निखिलपदार्थसाक्षात्कारो मन्वन्तरकोटिभिरपि दुर्घट इति ।
नेदं युक्तम् । विरुद्धत्वस्याप्रयोजकत्वाद् एकस्मिश्चित्रे विरुद्धनीलपीतादिवर्णभानवदेकस्मिन् ज्ञाने भानोपपत्तेः, धर्मकाले गङ्गायां निमग्नार्धकायस्य युगपच्छीतोष्णोपलम्भात्।
योगिनामीश्वरस्य च सर्वज्ञत्वेनाविशेषेऽपि जीवस्य सर्वज्ञत्वमनित्यमीश्वरस्य तु स्वाभाविकं नित्यमिति विशेषः । . धर्मः प्रत्यक्षः प्रमेयत्वाद् घटवदिति न्यायप्रयोगश्च द्रष्टव्यः ।
( २७ ) पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्व-अवाधितत्व-असत्प्रतिपक्षितत्वानि । पञ्चलक्षणानि यस्य तल्लिङ्गम् । तदेव प्रतिबन्धस्मरणसहितं प्रमाणम् । अत्राबाधितत्वा. सत्प्रतिपक्षितत्वे नापेक्षिते त्रिलक्षणकाल्लिङ्गादेवानुमितिसम्भवादिति पूर्वपक्षे न्यायमञ्जरीकार आह, अबाधितत्वज्ञानमावश्यकमेवेति । . ..
यदुच्यते पूर्वपक्षिणा सर्ववह्निधूमसहचारग्रहणादेव व्याप्तिग्रहणात् तत्काले बाधसंशय एव नोत्पत्तुमर्हतीति तत्, न, यद्यपि यत्र यत्र- धूमस्तत्राग्निरिति सामान्यतो व्याप्तिग्रहस्तथापि विशिष्य वह्निधूमवतीनां व्यक्तीनामग्रहात् सपक्षसत्त्व-विपक्षासत्वनिश्चयो न दृढ़ जायेते, तत्र बाधसंशयसम्भवादबाधितत्वमत एव प्रतिपक्षविधुरत्वरूपासत्प्रतिपक्षितत्वञ्चावश्यकमिति ।
(२८ ) श्रीजयन्तभट्टश्चार्वाकमतं विस्तरेण प्रस्तौति खण्डयितुम् । 'विशेषेऽनुगमाभावस्सामान्ये सिध्यसाध्यता' अग्निधूमविशेषयोर्व्याप्तिग्रहे न प्रयोजनमननुगमात् ।