________________
[ ११ ] बौद्धमुखपिधानन्त्वेवम्, योगजधर्मो वैदिकसाधनादेव भवेच्चोदनालक्षणत्वात्तस्य। वैदिककर्म उपजीव्य बौद्धेन योगजं चक्षुस्सम्पादनीयम् । तथा सति स्वोपजीव्यवेदविरुद्धं कथं ब्रूयादिति।
साधनन्त्वेवम्-यथास्मदादिलोचनवैलक्षण्येन विडालस्य लोचनं दूरसूक्ष्मादिक गृह्णाति, यथा वा सम्पातिश्चक्षुषा शतयोजनान्तरितां सीतां पश्यति, तथा योगिचक्षुरतीन्द्रियं पश्येत् । अपि च योगीन्द्रियस्याप्रत्यक्षत्वादस्माकंतदिन्द्रियं धर्मादिग्राहक न वेति विचारयितुं शक्ति स्ति। अथवा मनःकरणकं ज्ञानम्, मनश्च दूरसूक्ष्मादिकमपि पश्येदिति । एतच्च योगिप्रत्यक्षास्यातीन्द्रियार्थविषयत्वं श्रीशङ्कराचार्यैर्देवताधिकरणे महताऽऽग्रहेण विचार्य निर्णीयते। तदुक्तं भवति ह्यस्माकमप्रत्यक्षमपि चिरन्तनानां प्रत्यक्षम् । तथा च व्यासादयो देवादिभिः प्रत्यक्ष व्यवहरन्तीति स्मर्यते। योगोऽप्यणिमाद्यैश्वर्यफलस्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम् । श्रुतिश्च योगमाहात्म्यं प्रख्यापर्यात 'पृथिव्यप्तेजोऽनिलखे सनुत्थिते' इत्यादि ।
कालिदासोऽपि रघुवंशे भगवान् वसिष्ठो दिलीपस्य प्राग्जन्मकृतं सुरभेरपचारं ध्यानेन ज्ञात्वा गोपरिचर्या तच्छमनायादिदेशेति धर्माधयोर्योगिप्रत्यक्षगम्यतां सूचयति । अतः
मनःकरणकं ज्ञानं भावनाभ्याससम्भवम् ।
भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥ भट्टकुमारिलैर्योगिखण्डनन्तु देवताविग्रहादिखण्डनवत् केवलं बौद्धनिराकरणाय न तु परमार्थतः।
( २५) प्रतिभम् । कन्या काचिद् ब्रवीति श्वो मे भ्राता आगन्तेति, तथैव परदिने भ्रातागच्छति। तदिदं ज्ञानं प्रातिभं समाचक्षते। तच्च प्रमाणमेव यथार्थत्वात् । तत्र करणं न चक्षुरादि, अपि तु मन एव । कुतश्चित् कारणात् श्व आगमिष्यन् भ्राता सोदर्याः स्मरणपदवीमारूढः श्वस्तनागमनविशिष्टत्वेन प्रतिभातीति प्रातिभस्य स एव जनक इति । ननु नेदं प्रत्यक्षम्, तस्य वर्तमानमात्रग्राहित्वनियमादिति चेत्, न अनागतग्राहिणः