________________
[ १० ] जनितत्वान्मिथ्येति । यथा शुक्तिरूपो विषयः कलुषस्य ज्ञानस्य हेतुस्तथा भ्रमोऽपि कटुविपाकस्य भ्रमस्य हेतुरिति तथाविधं सुखमपि व्यभिचारि (पृ० ११९) ।
( २३ ) ____ अत्र वृद्धनैयायिकमतम्-रूपज्ञानं रसज्ञानं इति नामधेयव्यपदेश्यज्ञानव्यावृत्तयेअव्यपदेशपदमिति । तन्नामधेयपदव्यपदेश्यत्वं प्रामाण्यनिराकरणकारणं न भवतीति युक्त्या निरस्य वृद्धवाक्याज्जातमयं पनस उच्यत इति ज्ञानमिन्द्रियशब्दोभयजन्यं व्यावर्त्यमाहुराचार्या इति । अस्य शब्देन्द्रियोभयजन्यत्वाद् व्यावृत्तिरिति । - इदमपि न युक्तम् । शव्देन्द्रियोभयजन्यज्ञानाभावात् । इन्द्रियान्वयव्यतिरेकानुविधायित्वादिन्द्रियजन्यमेवेदमिति ।
__ अपरे त्वसम्भवाख्यदोषव्यवच्छेदार्थमव्यपदेश्यपदम् । गौरित्यादिना शब्दावच्छिन्नार्थविषयकत्वेन शाब्दमेवेदं ज्ञानं नेन्द्रियजम्, शब्दे चक्षुषोऽसामर्थ्याद् घटादौ च श्रोत्रस्यासामर्थ्यात् । नापि मानसम्, तथा सति मन एकमेवेन्द्रियमित्यापातात् । वाचकावच्छिन्नवाच्यविषयत्वाच्च शाब्दमिदं ज्ञानं केवलमनः करणकमिति (पृ०१२३) । स्मृतिविषयीकृतशब्दजनितोऽयं प्रत्यय आत्मानमर्थञ्च प्रकाशयतीत्याहुः। तदुक्तम्-न, सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते' इति' भर्तृहरिणा ।
. सिद्धान्तस्तु गौरिति ज्ञानञ्च शब्दस्मरणसापेक्षचक्षुरिन्द्रियजन्यं प्रत्यक्षमेव चक्षुरन्वयव्यतिरेकात् । अयं गौरितिज्ञानस्य शाब्दतामाशङ्कय तस्यैवाशाब्दतां दर्शयत्यव्यपदेश्यपदेन । तथा च शब्दस्मरणसहकृतेन्द्रियजन्यसविकल्पकप्रत्यक्षम्। तत्र शब्दभानं स्मृतिरूपज्ञानलक्षणप्रत्यासत्त्या (पृ० १२१)।
(२४) श्लोकवातिके धर्मस्य योगिप्रत्यक्षविषयत्वं निरस्यते। कुत इति चेत्, बौद्धास्स्वगुरोधर्मः प्रत्यक्षो योगित्वात् तस्येति ब्रुवन्ति। तत्खण्डनार्थं कस्यापि योगिनो धर्मो न प्रत्यक्षो योगिनामेवाप्रसिद्धः। प्रसिद्धावपि धर्मस्यातीन्द्रियत्वात् तत्र तदप्रसर एव । यद्युच्यते तेषां धर्मातिशयवशात् प्रत्यक्षस्यातिशयः कल्प्यते तथापि चक्षुरादिविषयत्वेन प्रसिद्ध रुपादौ तेषां प्रत्यक्षं स्वविषये कञ्चिदतिशयं गृह्णीयात्, यथा दूरसूक्ष्मादि; न त्वतोन्द्रियं गृह्णीयात् । तथा सति श्रोत्रं योगिनां कुतो रूपं न गृह्णीयाद् इति दूषितम् । तत्खण्डयित्वा योगिप्रत्यक्षं तस्य धर्माधर्मादिविषयत्वञ्च व्यवस्थापर्यात श्रीजयन्तभट्टः।