________________
[ ९ ] कार्यापत्तिः। सामग्रीकार्यत्वे किमन्तरालत्तिन्या शक्तया ? अशक्तात् कारकात् कार्योत्पत्तिरिति चेत्, कार्या शक्तिरपि शक्तयन्तरमपेक्षतेत्यनवस्था। शेषं मूले (पृ० ६२ )।
.. अस्मिन् मतेऽभाव एक एव । स चोत्पत्तेः प्राक् प्रागभाव इत्युच्यते । उत्पन्नस्यात्महानेक्सः । वस्त्वन्तरोपाधिकः स एवान्योन्याभावः। निरुपाधिकः स एवात्यन्ताभाव इति । अपेक्षाभावो देशोपाधिकस्स एव । सामर्थ्याभावस्तु पूर्वसिद्धस्य सामर्थ्यस्य ध्वंसे भवति। स च ध्वंसान्तर्गत इति । वेदान्तिनस्तु घटान्योन्याभावः पटादिरेव, एवं ध्वंसप्रागभावौ तत्कालविद्यमानकपालचूर्णादिविषयौ । घटात्यन्ताभावस्तु यस्मिन्नधिकरणे प्रतीयते तदेवातो नाभावः पदार्थान्तरमित्याहुः (बृ. भा०) । . ..
( २० ) .. चार्वाकमते 'अथातस्तत्त्वं व्याख्यास्यामः । पृथिव्यापस्तेजोवायुरिति तत्त्वानि' इति सूत्रद्वयमाहतद्व्याख्याता उद्भटः । तेन · प्रथमसूत्रे प्रमाणप्रमेयसंख्यालक्षणनियमाशक्यकरणीयत्वमाह । द्वितीये प्रमेयानियममाहेति।
: ( २१ ) ...आदौ धूमदर्शनम्, ततो व्याप्तिस्मरणम्, ततस्तृतीयलिङ्गपरामर्शो नाभ्युपेय इति मीमांसकमतम्।
वेदान्तिनः पद्मपादा ब्रह्मानन्दाश्च प्रथमं धूमदर्शनं तेन व्याप्तिसंस्कारोबोधस्तेनैवानुमितिर्न तु व्याप्तिस्मृतेरपेक्षेत्याहुः (पृ० १०७)।
( २२ ) ....... प्रत्यक्षलक्षणेऽव्यभिचारिपदस्य फलं विवृणोति सुखं परस्त्रीगमनादिना यद् भवति तन्मिथ्यासुखम् , यथार्थविषयानुभवजन्यं सुखं न मिथ्या। यद्यपि भ्रमजन्यमपि सुखं दृष्टम्, तथापि तत्सुखं भ्रमजन्यत्वाद् मिथ्येत्याह । तद्वारणायाव्यभिचारिपदम् । अत्र न्यायमञ्जरीकारः-ननु न सुखं मिथ्या, तदप्यानन्दस्वरूपमेव । यद्येवं शुक्तिरजतज्ञानमपि न मिथ्या विषयानुभवस्वरूपत्वात् । यथा विषयानुभवस्वभावं ज्ञानं विषयद्वयमिच्छति एवं आनन्दस्वभावमपि सुखं शास्त्रविरुद्धचेष्टया