________________
[ ८ ] गच्छामः । तेन विकल्पेन सम्बन्धन हो दर्शनसमनन्तरं दर्शनच्छायापत्तौ विकल्पा जायन्ते काल्पनिकतदितरपरावृत्तिस्वभावसामान्याकारमनुमानम् । अतो न प्रमाणद्वयवेद्यमेकं वस्त्विति। तन्न । न हि प्रतिबन्धो विकल्पविषयः सन् वस्तुधर्मो भवति । अवस्तुधर्मो न वस्तुसाधयितुमलम् । अतः प्रमाणसंप्लवः । अप्रमाणपरिच्छिन्नस्य प्रतिबन्धस्य वस्त्वनुमापकत्वाभावात् प्रमाणपरिच्छिन्न एवायमनुमानाङ्गमिति । वस्तुतस्तु प्रत्यक्षगृहीतं कालान्तरे देशान्तरे वानुमीयते, अतोऽसदेवेदमिति।
( १७ ) अर्थापत्तिः शक्तयाख्यपदार्थान्तरसिद्धये मीमांसकैरङ्गीकृता प्रत्यक्षावगतदहनसंसर्गावगतदाहानुमेयाग्नेर्दाहशक्तिः । अतीन्द्रियशक्तेर्दाहेन सम्बन्धग्रहो न प्रत्यक्षेण शक्तेरतीन्द्रियत्वात्, नानुमानेनान्वयव्यतिरेकाभ्यां हिपदार्थेषु सा ग्राह्या । यतः तस्यास्सूक्ष्मत्वाद् न ताभ्यां ग्रहणमित्याहुः । नव्यतार्किकास्तु वह्निाहानुकूल-अद्विष्ठातीन्द्रियधर्मसमवायी दाहजनकत्वात्, अदृष्टात्मवद् इति शक्तिसाधकं सामान्यानुमानमुद्भाव्य हेतोरनुकूलतर्काभावेनाप्रयोजकत्वमाहुः।
( १८ ) मीमांसकास्सर्वत्र कारणेषु कार्यानुकूलां शक्ति कल्पयन्ति । मणिमन्त्रादियुक्तेऽग्नौ शक्तिनाशान्न दाहरूपं कार्यम् । पुनरुत्तेजकमण्यादिसमवधाने शक्तिरुत्पद्यतेतः कार्यञ्च जायत इत्याहुः । न्याये तु प्रतिबन्धकाम वमात्रेण सर्वोपपत्तावतीन्द्रियशक्तेरनावश्यकतेत्याहुः।
___ अत्र च शक्तिनिरासे पराक्रान्तं श्रीजयन्तभट्टेन। तथाहि-कार्योत्पत्ती लोकसिद्धकारणान्यपेक्ष्यन्ते । सहकारिवर्गे च धर्माधर्मावन्तर्भवतः । तयोश्च वैचित्र्यं कार्यफलेन कल्पनीयम् । तयोश्च स्वरूपत एवातीन्द्रियत्वं न तु शक्तिमत्वात् । मन्त्रबलादग्निनिष्ठशक्तिनाशान्न दाह इति चेत्, न, सामग्रयभावादिति ब्रूमः । सामग्री च प्रतिबन्धकमन्त्राभावघटिता, सर्वत्र प्रतिबन्धकाभावस्य कारणत्वात् । अपि च मन्त्रेणाग्नेः किं कृतम् ? शक्तिनाशं इति चेत्, न, मन्त्रापगमे दाहदर्शनात् प्रतिबन्धश्च स्वरूपस्यैवास्तु, स्वरूपं दृश्यते इति चेत् शक्तिरपि तथा मन्त्रापगमे दर्शनात् । शक्तिश्च नित्याभ्युपगम्यतेऽनित्या वा। नाद्यः, सर्वदा कार्यप्रसङ्गात् । कार्यत्वे स्वरूपमात्रकार्यत्वञ्चेत् पुनरपि सर्वदा