________________
[ ७ ] कत्वेऽपि परम्परया प्रापकत्वमस्त्येव । प्रत्यक्षपरम्परायां प्रविष्टस्य कस्यचिज्ज्ञानस्य प्रापकत्वात् । ततश्च सन्तानाध्यवसायजनकत्वमेव प्रापकत्वम् इति बौद्धाः ।
तदिदं न शोभनम् । किं प्रदर्शितप्रापकं प्रमाणमुताध्यवसितप्रापकम् ? नाद्योऽनुमाने प्रदर्शनाभावात्, न द्वितीयो ज्ञानस्य क्षणिकत्वेनातिकान्तत्वात् ।
अध्यवसायश्च वस्तुविषयत्वाभावाद् वस्तुनश्च प्राप्तुमशक्यत्वात् क्षणिकत्वोक्तेः अपि चास्य लक्षणस्योपेक्षणीयविषयेऽव्याप्तिः, प्रापकत्वाभावात् । कोऽयमुपेक्षणीयो नाम विषयः ? उपादेये दर्शनमात्रेण प्रीतिर्भवति, तथा हेये दृष्टे विषादो भवति । तदुभयं यस्मिन् सति न भवेत् सः। यथा मार्गेण गच्छतः पथि पतितं तृणपर्णादिकमिति ।
( १४ ) नन्वेषु न्यायग्रन्थेषु स्मृतेर्यथार्थत्वेऽपि न प्रमात्वमुपेयते। अत एव यथार्थानुभवः प्रमेति प्रमालक्षणम्। स्मृतिसाधारणं प्रमात्वमित्यङ्गीकारे तत्करणस्य पूर्वानुभवस्य प्रमाणत्वं वक्तव्यमिति चत्वार्येव प्रमाणानीति सूत्रविरोध इत्याहुः । जयन्तभट्टस्त्वर्थजन्यत्वं प्रमात्वे कारणम् ।
स्मृतिस्तु नार्थजन्या स्मृत्यारूढस्य वस्तुनः प्रायेण स्मृतिकालेऽसत्वात् । नदीप्रवाहेन भूतवृष्टयनुमितौ वृष्टिधर्मिणः पर्वतादेस्तदा सत्वादनुमितेरर्थजत्वसम्भवात् । प्रातिभज्ञानमपि वस्तुत आगामिन एव भ्रात्रादेविषयीकरणादर्थजमित्याह ।
( १५ ) • सांख्यमते बुद्धिवृत्तिः प्रमा, पुरुषस्तु बुद्धया साकं भेदाग्रहात् प्रमिणोतीव इत्याहुः, तदयुक्तम् , एवं सति यस्यार्थदर्शनं पुरुषस्य यो न जानाति, या तु जानाति बुद्धिः सा न तत्फलमर्थदर्शनमनुभवतीति वैयधिकरण्यम् इति ।
(१६) बौद्धा हि प्रत्यक्षमनुमानञ्चेति द्वे एव प्रमाणे। तत्र प्रत्यक्षं स्वलक्षणं क्षणिकं वस्तु गृह्णाति । अनुमानञ्च सामान्यमात्रं गृह्णालि । न चानुमानं सम्बन्धग्रहणमपेक्षते । सम्बन्धग्रहे च साध्यसाधने विषये तदेव ‘साध्यमनुमितावित्येकस्य विषयस्य प्रत्यक्षानुमितिविषयत्वापत्तिरिति । यद्यनुमानान्तराधीनस्सम्बन्धग्रहः, तदाऽनवस्थेति वाच्यम्, यतश्शब्दानुमानयोर्विकल्पविषये वृत्तिमभ्युप