________________
सिद्धस्वभावानि साध्यं पाकं सम्पादयितुं संसृज्यन्ते तथात्मेन्द्रियमनोऽर्थसन्निकर्षे सति ज्ञानाख्यो व्यापार उत्पद्यते । तेन च ज्ञानानुमितिरिति सङ्गिरन्ते । तन्न । यत्तु क्रियास्वभावत्त्वाद् ज्ञानमप्रत्यक्षमिति तन्न, ज्ञानस्य फलस्वभावत्वात्। अपि च क्रियापि प्रत्यक्षस्समवायः प्रत्यक्ष एव आत्मा च प्रत्यक्षस्तद्गतं ज्ञानञ्च प्रत्यक्षमेव । कारकाणि च निापाराण्येव ज्ञानक्रियां निष्पादयन्ति । अतस्तेषामपि क्रियान्तरापेक्षणेऽनवस्था निराकृता भवति । भट्टाभिमतो भावनाख्यो व्यापारोऽपि न विचारसहो न हि विशिष्टगुणसमवायापेक्षया पुरुषस्य व्यापारान्तरं दृश्यते। तस्माद् भावनाख्यो व्यापारो वाक्यार्थ इत्येतदयुक्तम् । ज्ञानञ्च यद्यपि धात्वर्थस्तथापि न ज्ञानंक्रिया,धातूनां क्रियैवार्थ इति गडिवदनैक देशे इत्यादावव्याप्तम् । अपि च ज्ञानस्य नित्यपरोक्षत्वे तेन साकं व्याप्तिग्रहस्याशक्यत्वाद् ज्ञानानुमितिरपि दुस्साध्या। ___अपि च, अर्थे दृष्टता नाम किं दर्शनकर्मता उत प्रकाशस्वभावता । नाद्यः, दर्शनस्य परोक्षत्वात् दर्शनकर्मतापि दुर्ग्रहा । अर्थप्रकाशता तु यदि प्रत्यक्षा, तदार्थद्रष्टारस्सर्वज्ञास्स्युः । एतेन ज्ञानजन्येन संवेदनेन ज्ञानानुमानमपि प्रत्युक्तम् । तस्यापि स्वप्रकाशत्वाभावेनानुमेयत्वात्, तत्र च लिङ्गाभावादनवस्था च । ज्ञानस्वप्रकाशत्वन्तु पश्चानिषेत्स्यते (पृ. २७)।
(१२) वेदान्तिभिः मीमांसकैश्चानुमतमनधिगतार्थबोधत्वं प्रामाण्यमिति लक्षणं न युक्तम्, गृहीतविषयज्ञानस्यापि प्रमात्वात् । पुनः पुनरनुभवे प्रीत्यतिशयोत्पादात्, धारावाहिकबुद्धिवत् । वेदान्तिनस्तु तत्र पूर्वपूर्वज्ञानाविषयक्षणविशेषविशिष्टविषयत्वेनोत्तरस्य प्रामाण्यमित्याहुः।
___ अपि च प्रत्यभिज्ञाप्रामाण्यमस्तमियाद् गृहीतग्राहित्वात् । न चैवं स्मृतेरपि प्रामाण्यापत्तिः, गृहीतग्राहित्वेऽपि प्रामाण्याभ्युपगमात् । न तस्य प्रामाण्यमर्थजत्वाभावात् । न गृहीतग्राहित्वात् । नदीप्रवाहेण भूतवृष्टिविषयानुमितिरपि पक्षविषयेऽर्थजन्यैव । अपि चेदं मतं न जैमिनिसम्मतम् । स ह्यर्थेनुपलब्धे प्रमाणमिति शब्द एवागृहीतग्राहित्वमुवाच, न सर्वस्यापि प्रमाणस्य ।
ज्ञानस्य सुखदुःखसाधनसमर्थप्राप्तिपरिहारभूतायाः प्रवृत्तेनिमित्तप्रदर्शकत्वं प्रामाण्यमाहुः । प्रापकत्वं प्रत्यक्षानुमानयोरेव । प्रत्यक्षस्य क्षणिकत्वेन साक्षादर्थाप्राप