________________
[५]
(=)
प्रमाणपदार्थविचारे सामग्रयाः कारणसमूहरूपाया एव प्रमाकरणत्वरूपं प्रमाणत्वमिष्यते । यदव्यवहितोत्तरं कार्यं भवति तदेव साधकतमम् । कर्तृकर्मकरणानि तु साधकानि भवन्ति । अतिशयेन साधकत्वरूपस्तमबर्थो न कस्यापि । स्वाव्यवहितपूर्व - वृत्तित्वसम्बन्धेन कार्यविशिष्टत्वमतिशयः । स च सामग्रया एवेति जयन्तभट्टनिर्णयः । नवीनतार्किकास्तु साधकतम करणम् । तत्रातिशयो व्यापारविशिष्टत्वम्, दण्डादेभ्रमणादिव्यापारवत्त्वात् करणत्वमित्याहुः ।
( ९ )
to भिचारिण्यसन्दिग्धार्थबोधजनिका बोधाबोधस्वभावा सामग्री प्रमाणम् । अत्राबोधस्वभावचक्षुरादीन्द्रियं दीपादिकञ्च गृह्येते बोधस्वभावज्ञानस्थापि क्वचित्करणत्वात्, तथाहि विशिष्टबुद्धी विशेषणज्ञानं करणं लिङ्गादिज्ञानमनुमित्यादी करणमतो बोधात्मकत्वोक्तिः । अत्र ज्ञानस्यैव प्रमाणत्वे चक्षुरादीनामप्रमाणत्वप्रसङ्गः । asस्यैव प्रमाणत्वे विशेषणज्ञान-लिङ्गज्ञान-सादृश्यज्ञान - शब्दज्ञानानामप्रामाण्यापत्तिः, अतो बोधाबोधेत्युक्तम् ( पृ० २० ) ।
( १० )
सन्निपत्योपकारकं - मीमांसकाः कर्माङ्गद्रव्यदेवताद्युद्देशेन विधीयमानमवघातप्रोक्षणादि सन्निपत्योपकारकम् । साक्षादेव कर्मण्यङ्गत्वेन विहितमारादुपकारकं यथा प्रयाजादिकं दर्शपूर्णमासयोराराद् दूरे कर्मजन्ये परमापूर्व उपयुज्यत इत्यर्थः इत्याहुः । न्यायमते सन्निपत्योपकारक लक्षणमाह व्याख्याता ( पृ० २१ ) अन्यकारकेति । दण्डो घटे भ्रमिद्वारोपकरोतीति तस्य करणत्वम् । प्रयाजादिकन्तु यागजन्यपरमापूर्वे उपकरोतीत्यन्यकारकस्य यागस्य योऽपूर्वाख्यो व्यापारस्तद्द्वारेण प्रयाजः फलं प्रति साधको आरादुपकारक इति ( पृ० २५ ) ।
( ११ )
शाबरा ज्ञानमनुमेयं ज्ञानजन्येन ज्ञातताख्येन फलेनेति वदन्ति । तन्मतं निराकरोति - शाबरा स्त्विति । अयमभिप्रायः - ज्ञानं नाम क्रिया, क्रिया च फलानुमेया, ज्ञातृव्यापारमन्तरेण फलानिष्पत्तेः । यथा च कारकाणि तण्डुलसलिलानलस्थाल्यादीनि