________________
[ ४ ] वयवत्वेन दृष्टान्तसिद्धान्तयोरन्तर्भावेऽपि तेष्ववयवत्वेन प्रवेशः, पदार्थेषु तु पदार्थत्वेन प्रवेश इति रूपभेदात् पृथग्ग्रहणमित्यभिप्रेति । अन्यथा हेतुवाक्येनानुमानस्यापि गतार्थत्वापत्तेः।
षोडशपदार्थानां तत्वज्ञानादिति स्थिते निर्णयस्य पदार्थान्तर्भावः किमर्थ इति चेदत्र ग्रन्थकारः-षोडशपदार्थतत्त्वज्ञानं तत्तत्साधकः प्रमाणैसिध्यति। निर्णयस्तु न्यायाख्यपञ्चावयवप्रयोज्य एवात्र गृह्यत इति भेद इत्याह (पृ० १६ )।
(७) अस्य शास्त्रस्य महर्षिणा कृतस्य प्रयोजनं भाष्यकार आह 'प्रदीपस्सर्वविद्यानामित्यादिना । अत्र च न केवलं वेदप्रामाण्यनिरूपणेऽस्य शास्त्रस्योपयोगोऽपि तु वेदार्थनिर्णयेऽपि । कथमिति चेदुच्यते-इयमान्वीक्षिकी सर्वविद्यानां मध्ये प्रदीप इव प्रकाशते यतोऽनुमानप्रामाण्यम्, हेत्वाभासाः, छलजात्यादयः. सर्वे कस्यचिदर्थस्य स्थापने वा दूषणे वापेक्ष्यन्ते। अत आस्तिकानां वेदार्थव्यवस्थापने उपयुज्यन्ते, यथा यागस्य स्वर्गसाधनत्वबोधिवेदवाक्यम्। अपूर्वस्य मध्ये यागेन जननमनुमानेनैव निर्णेयम् । एवं नास्तिकैर्वेदार्थे कृता आक्षेपा हेत्वाभासच्छलादिप्रदर्शनेन निग्रहस्थानरेव प्रतिक्षेप्याः । अतो न केवलं वेदार्थविचाररूपमीमांसायामपि तु सर्वत्र वेदान्तेष्वपि वेदार्थस्य ब्रह्मात्मत्वस्य व्यवस्थापने उपयुज्यते । अत एवाद्वैतसिद्धिलघुचन्द्रिकादिग्रन्थकारा विजयिनो दृश्यन्ते । अतएव च ब्रह्मसूत्रभाष्यादौ श्रीशङ्कराचार्या वेदार्थमीमांसा तदविरोधितर्कोपकरणा प्रस्तूयत इति जगदुः । अत एव च तद्भाष्यमर्धमनुमानात्मकम(शेनैव श्रुत्यर्थात्मकमिति पद्मपादाः।
मीमांसका अपि लिङ्गेन मन्त्रविनियोगो ‘मन्त्रलिङ्गादिति वदन्तोऽनुमानमुपजीवन्ति। उपायस्सर्वकर्मणामित्यनेन सुखावाप्तिदुःखपरिहारार्थेषु कर्मसु प्रवृत्तिरनु. मानात् तत्साधनत्वनिश्चयादेव भवति, भाविसुखादौ प्रत्यक्षासम्भवात् । अतस्सर्वकर्मणामुपाय इति युक्तमुक्तम्।
___धर्मस्वरूपमागमैकसमधिगम्यमागमश्च न्यायापेक्षस्सन् याथार्थेन धर्मावबोधकः । तदुक्तं मनुना
आषं धर्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तāणानुसन्धत्ते स धर्म वेद नेतरः ॥ ( पृ० १९ ) ।