________________
[ ३ ]
( ४ ) सापेक्षमसमथं भवतीति शासनात् ‘समर्थः पदविधिः' इति सूत्रप्रतिपादितात् समासघटकपूर्वपदार्थस्य सापेक्षत्वे न समासः। यथा ऋद्धस्य राजमातङ्गा इति । अत्र च पूर्वपदार्थस्य नित्यसापेक्षत्वे भवत्येव समासः। यथा चैत्रस्य गुरुकुलमिति । अत्र चैत्रपदार्थस्य गुरुत्वेऽन्वयो न तु गुरौ, स्वपुत्रस्यान्यनिरूपितगुरुत्वेऽपि चैत्रस्य गुरुरिति प्रयोगापत्तेः । गुरुत्वन्तु ससम्बन्धिकं नित्यसापेक्षमतस्तत्रान्वयो नान्यत्रेति तदभिप्रायः। परन्तु नायं निर्बन्ध इति । 'अथ शब्दानुशासनं केषां शब्दानामि ति भाष्यप्रयोगे केषामित्यस्य शब्देऽन्वयः । कथम् ? शब्दशब्दस्य ससम्बन्धिकार्थत्वाभावात् । अतोनित्यसापेक्षवाभावेऽपि समासोऽस्तीति शब्देन्दुशेखरटीकायां स्थितम्। तत्र हि नित्यसापेक्षत्वाभावेऽपि गमकत्वात्समासः, भाष्ये 'सक्त्वाढकमापणीयानां किमोदनः शालीनामि'ति प्रयोगात् । गमकत्वञ्च 'विग्रहवाक्यजन्यशाब्दबोधसमानप्रकारकशाब्दबोधजनकत्वम्' इति कथितम् । एवं सति ऋद्धस्य राजपुरुष इत्यत्र तु विग्रहवाक्यसमानार्थत्वाभावान्न समास इति टीकायामुक्तम्।
मीमांसका उपमानस्वरूपमन्यथैव निरूपयन्ति । आरण्यकवाक्याद् गोसदृशो गवय इति वाक्यं श्रुत्वाऽरण्यं गतो गोसदृशं पिण्डं पश्यति । तदा तस्य 'अयं गवयो गोसदृशः' इति वाक्यस्मरणपूर्वकं प्रत्यक्षम्, तत एतत्सदृशी मदीया गौरिति उपमितिर्भवति । इदञ्चोपमानं कर्मसु प्रकृतिविशेषनिर्धारणायोण्युज्यते। सौर्यवाक्यं दृष्ट्वैतत्प्रतिपाद्ययाग आग्नेयसदृश एकदेवताकत्वात् औषध द्रव्यकत्वसाम्यादिति । तत एतत्सदृशमाग्नेयमित्युपमितिः । तेनाग्नेयः प्रकृतिरिति निश्चयात् तन्निष्ठाः पदार्था उपकारद्वारा सौर्येऽतिदिश्यन्ते सौर्ययाग आग्नेयवत् कर्तव्य इति ।
___तार्किकाभिमतोपमाने तु गोसदृशो गवय' इत्यतिदेशवाक्यार्थस्मरणाद् अयं गवय पदवाच्य इत्युपमितिर्भवति । तेनाश्वस्तूपरो गोमृग इत्यश्वमेधान्तर्गतपशुयागे गोमृगो गवयस्तस्य ज्ञानं भवतीति विशेषः ( पृ० १६ )।
दृष्टान्तसिद्धान्तयोः पदार्थेषु पृथग्ग्रहणमनुचितमवयवान्तर्गतदृष्टान्तसिद्धान्ताभ्यां तयोः सिद्धेरिति पूर्वपक्षे न्यायमञ्जरीकार आह अवयवाः पञ्च तेष्व