________________
भट्टस्य समाधिः-न्यायशास्त्र अनुमानादीश्वरं प्रसाध्य ईश्वरोच्चरितत्वेन वेदप्रामाण्यमिष्यते, स्वतः प्रामाण्यञ्च नाङ्गीक्रियते । न हि विदितवेदार्थं प्रति मीमांसा। तदुक्तम्'नान्यतो वेदविद्भ्यश्च सूत्रवृत्तिक्रियेष्यते' । भवति च चतुष्प्रकारः पुरुषोऽज्ञस्सन्दिग्धो विपर्यस्तो निश्चितमतिश्चेति । तत्र निश्चितमतिरेव मुनिरमुना शास्त्रेणाज्ञस्य शास्त्रमुपदिशति, संशयानस्य' संशयमुपहन्ति, विपर्यस्यतो विपर्यासं निरस्यतीति तान् प्रति शास्त्रारम्भो युक्त इति (पृ. १८)। अनेनेदमुच्यते स्वतःप्रामाण्यं ज्ञानानां न स्वीकारार्हम् , अज्ञातकर्तृकस्य 'इह वटे यक्षस्तिष्ठतीत्यादेरपि प्रामाण्यापत्तेः। तस्माद् आप्तवाक्यं प्रमाणं वेदकर्ता च परमाप्त ईश्वरः। तत्सद्भावो यदि वेदात्तदाऽन्योन्याश्रयापत्तिः। अतरसदनुमानादीश्वरं प्रसाध्य तदुक्तत्वेनैव वेदप्रामाण्यमङ्गीकार्यमिति ।
(२) ननु गौतमोत्पत्तेः पूर्वं कथं शास्त्रार्थावगमः ? इदानीमपि शास्त्रान्तरात् तर्कशास्त्रार्थोऽवगम्येत इति चेत्, न, । गौतमात्पूर्वमपि तर्कशास्त्रमासीदेव इदानीन्तु न दृश्यते, सम्प्रदायस्यानादित्वात् । अत एव मनुना
आषं धर्मोपदेशश्च वेदशास्त्राविरोधिना।
यस्तःणानुसन्धत्ते स धर्म वेद नेतरः ।। इत्युक्तम् । वेदेऽपि 'सैषानन्दस्य मीमांसा भवति', 'ब्रह्मवादिनो मौमांसन्ते'। उद्दालकादयस्समेत्य मीमांसाञ्चक्रुः, को न आत्मा ? किं ब्रह्मेति ? इत्यादौ वेदे एव मीमांतर्कस्य पूर्वैश्शास्त्रार्थनिर्णयायावलम्वितत्वोपन्यासात् ।
(३) न्यायशास्त्राध्ययनस्य किं प्रयोजनम् ? प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत इति न्यायात् प्रयोजनज्ञानं प्रवृत्तावपेक्ष्यते । यदि शास्त्राध्ययनात् प्रयोजनज्ञानं तदाऽन्योन्याश्रयः । प्रयोजनज्ञानात् शास्त्राध्ययने प्रवृत्तिः, प्रवृत्तेश्च प्रयोजनमिति । तत्र समाधानमाह भट्टजयन्तः
आदिवाक्यादेव श्रोतुश्शास्त्रप्रयोजनपरिज्ञानम् । सर्वशास्त्राध्ययनप्रवृत्तिसाधारणमिदम् । आप्तवचनादेव प्रथमं प्रवृत्तिरिति । अत्रादिवाक्यादिति पूर्वतनस्याध्येतुर्वाक्यमिति तदर्थः । तच्चाप्तवाक्यमेव ।