________________
उपोद्घातः
न्यायदर्शनप्रकाशकेषु ग्रन्थेषु प्रधानं स्थानं भजते न्यायमञ्जरी । 'रुचिरां न्यायमञ्जरी प्रसवित्रे गुरवे नमः' इति श्रीवाचस्पतिमिरैः स्वकृतन्यायकणिकायामादौ मङ्गलश्लोकेषु पठनात् तेषामेव गुरव एतत्कर्तारः श्रीजयन्तभट्टा इति प्रतिभाति । परन्त्वयं पक्षो न सर्वसम्मतस्तदास्तां तावत् । इदानीं तैस्स्वबुद्धया प्रकटिता अपूर्वविषयाः के इति विचारयामः ।
(१), पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाश्शास्त्राणि विद्यानां धर्मस्य च चतुर्दश ॥ इति पुराणप्रामाण्यात् पुराणन्यायमीमांसाधर्मशास्त्राणि वेदानामुपाङ्गत्वेन गण्यन्ते । एवमेवोक्तं श्रीमधुसूदनसरस्वतीभिः प्रस्थानभेदाख्यसंक्षिप्तग्रन्थे। इमे जयन्तभट्टास्तु न्यायविस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानां' परं विद्यास्थानमिति न्यायशास्त्रस्य विद्यास्थानेषु महत्त्वं प्रतिपादयन्ति । वैशेषिकशास्त्रस्यापि न केवल सुपाङ्गत्वं तथात्वेऽप्राधान्यापत्तेः।
अत्रेयमाशङ्का, मीमांसकाः 'वेदांश्चैके सन्निकर्षः पुरुषाख्या' इति प्रथमपादाधिकरणे वेदापौरुषेयत्वं व्यवस्थाप्य स्वतःप्रामाण्यञ्च वेदस्य व्यवस्थापयामासुः। तत् किमिति तर्कशास्त्रेणैव वेदप्रामाण्यं व्यवस्थापनीयमित्युच्यत इति–अत्र जयन्त
१. वेदप्रामाण्यहेतुत्वात् । वेदेषु हि तार्किकरचितकुतर्कविप्लावितप्रामाण्येषु शिथिलितास्थाः कथमिव बहुवित्तव्ययायाससाध्यं वेदार्थानुष्ठानमाद्रियेरन् साधवः । किं वा तदानीं स्वामिनि परिम्लाने तद तुयायिना मीमांसादिविद्यास्थानपरिजनेन कृत्यमिति । तस्मादशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेशक्षमम् अक्षपादोपदिष्ट न्यायविस्तराख्यं शास्त्रं प्रतिष्ठाननिबन्धनमिति परं विद्यास्थानमिति ।