________________
आह्निकम् ] प्रमाणप्रकरणम्
२९९ शब्दानामभिव्यक्ति-कार्यपक्षयोर्लाघवगौरवविचारः
इदञ्चालोच्यतामार्याः कार्याभिव्यङ्गयपक्षयोः ।
शब्दस्य ग्रहणे गुर्वी लघ्वी वा कुत्र कल्पना । तथा हि भवन्तो वैशेषिताः, सांख्याः, जैनाः, सौगताश्च कार्यशब्दवादिनः, चार्वाकास्तु वराकाः कस्यैवंविधासु गोष्ठीषु स्मृतिपथमुपयान्ति ।
तत्रभवतां वैशेषिकाणां शब्दस्य श्रवणे तावदेषा तुल्यैव कल्पना, संयोगाद् विभागाद्वा शब्द उपजायते, जातश्चासौ तिर्यगूर्ध्वमधश्च सर्वतोदिक्कानि कदम्बगोलकाकारेण सजातीयनिकटदेशानि शब्दान्तराण्यारभते, तान्यपि तथेत्येवं वीचीसन्तानवृत्त्यारम्भप्रबन्धप्राप्तोऽन्त्यः श्रोत्राकाशजन्मा शब्दस्तत्समवेतस्तेनैव गृह्यते इति । तदियं तावदतिघरी कल्पना ।
शब्दः शब्दान्तरं सूत इति तावदलौकिकम् । कार्यकारणभावो हि न दृष्टस्तेषु बुद्धिवत् ॥ जन्यन्तेऽनन्तरे देशे शब्दैः स्वसदृशाश्च ते।' तिर्यगूर्ध्वमधश्चेति केयं वा श्रद्दधानता॥ शब्दान्तराणि कुर्वन्तः कथञ्च विरमन्ति ते। न हि वेगक्षयस्तेषां मरुतामिव कल्पते ॥ कुड्यादिव्यवधाने च शब्दस्यावरणं कथम् ।
व्योम्नः सर्वगतत्वाद्धि कुड्यमध्ये व्यवस्थितिः ॥ अथावरणात्मककुड्यादिद्रव्यसंयोगरहितमाकाशं शब्दजन्मनि समवायिकारणमिष्यते तदत्र प्रमाणं विशेषे वक्तव्यम् ।
तुल्यारम्भे च मन्देन तीवस्य जननं कथम् । श्रूयते चान्तिकात्तीवःशब्दो मन्दस्तु दूरतः॥
20
न दृष्टस्तेषु बुद्धिवदिति । यथा लिङ्गादिबुद्धिलिङ्ग्यादिबुद्धिमारभमाणा दृश्यते तथा न शब्द: शब्दान्तरमित्यर्थः ।