________________
२९८
न्यायमञ्जयां
[तृतीयम
न्यावच्छेदोपपत्तेः, धर्माधर्मनिबन्धन एव वधिरेतरविभागः । अपि च भवतामेवैष दोषो येषामाकाशमेव श्रोत्रमित्यभ्युपगमनियमः। मीमांसकानान्तु नावश्यमाकाशमेव श्रोत्रम् । कार्यार्थापत्तिकल्पितन्तु किमपि करणमात्रं प्रतिपुरुषनियतं श्रोत्र
मिति नातिप्रसङ्गः । तथा च भर्तृभित्रः, 'पवनजनितसंस्कारपक्षो भवतु' तथापि 5 नातिप्रसङ्गः, नियतदेशस्यैव तत्र संस्कारात् । न चास्य भागशः संस्कारो निरवयवत्वात् । तथापि जातिवदस्य ग्रहणनियमो भविष्यति । तथा च भवतामेव पक्षे
यथा सर्वगता जातिः पिण्डदेशैव गृह्यते । न च कात्य॑गृहीतापि पिण्डेऽन्यत्र न दृश्यते ॥ तथा सर्वगतः शब्दो नाददेशेषु गृह्यते। कात्स्न्र्येन च गृहीतोऽपि पुनरन्यत्र गृह्यते ॥ पिण्डोऽभिव्यञ्जको जातेः शब्दस्य व्यञ्जको ध्वनिः।
आश्रितानाश्रितत्वादिविशेषः क्वोपयुज्यते ॥ सर्वगतत्वनिरवथवत्वाविशेषात् तीब्रमन्दत्वादयश्च ध्वनिधर्मा अपि भवन्तः शब्दवृत्तितयावभान्ति। यथा स्थूलत्वकृशत्वादयः पिण्डधर्मा अपि जाति18 वृत्तित्वेन क्वचिद् गृह्यन्ते, अगृहीतशावलेयादिविशेषस्य कृशा गाव इत्यादिप्रतिभासदर्शनात् ।
यद्वा न तीव्रमन्दादेर्वर्णधर्मतया ग्रहः। बुद्धिरेव तथोदेति व्यञ्जकानुविधायिनी ॥ तावन्त एव ते वर्णाः प्रचयापचयस्पृशः । एवञ्चाभिभवोऽप्येषां स्वतो नास्ति परस्परम् ॥ मरुद्भिरभिभूयन्ते मारुता एव दुर्बलाः ।
तेजोभिरिव दीप्तांशोदिवा दीपप्रभादयः ॥ द्वयसंस्कारपक्षोऽप्येवं समाहितो भवति, उभयेषामपि दोषाणामुत्सारणात् । तस्मात् प्रत्यभिज्ञाप्रत्ययप्रभावसिद्ध नित्यत्वस्य शब्दस्याभिव्यक्तिरेव साधीयसी।
तथा च भर्तृमित्रेति । भत मित्राख्यस्तन्त्रशुद्धयादिप्रकरणकृन्मीमांसक: 'कर्णशष्कुल्यां पवनजनितः संस्कारः श्रोत्रम्' इत्याह, तदन्वयव्यतिरेकानुविधायित्वाच्छब्दग्रहणस्य।
25