________________
आह्निकम् ]
प्रमाणप्रकरणम्
२९७
तस्मात् कृतकपक्षे एव नियतदेशं शब्दस्य ग्रहणं परिकल्पते नाभिव्यक्तिपक्षे इति । अपि च, अभिव्यक्तिपक्षे तीव्रमन्दविभागोऽभिभवश्च शब्दस्य शब्दान्तरेण न प्राप्नोति । न हि शब्दस्तीवो मन्दो वा कश्चित्, स्वतस्तस्य भेदाभावात्। संस्कारस्य च तदभिव्यक्तिहेतोर्न काचन तीव्रता मन्दता वा यदनुसारेण विषये तथा बुद्धिः स्यात्। पवनधर्मा वा तीव्रादिर्भवन् कथं श्रोत्रेण गृह्येत ? सावयवे हि वस्तुनि सकल- 5 विशेषग्रहणाग्रहणसम्भवात् तदपेक्षया प्रतीतिभेदो भवेत्, इह तु निरवयवे शब्दे न . तथोपपद्यते इति । तस्मात् कृतकपक्ष एव श्रेयानिति । शब्दानामभिव्यक्तौ दोषपरिहारः
अत्रोच्यते, करणसंस्कारपक्ष एव तावदस्तु, तच्च करणं किञ्चिदेव मरुद्धिरुपाहितसंस्कारं कञ्चिदेव शब्दं गृह्णाति ।
यथा ताल्वादिसंयोगविभागाः केचिदेव नः। कस्यचिद् ग्रहणे शक्तं श्रोत्रं कुर्वन्ति संस्कृतम् ॥ यथा च तेषामुत्पत्तौ सामर्थ्यनियमस्तव ।
तथ वैषामभिव्यक्ती सामर्थ्यनियमो मम ॥ व्यञ्जकानां नियमो न दृष्ट इति चेत्, क एवमाह, सहस्राक्षः ? तथा हि 15 पृथिव्यामेव वर्तमानो गन्धः समानदेशो भवति समानेन्द्रियग्राह्यश्च, घ्राणकविषयत्वात । तस्य च नियमतस्तव्यजकव्यङ्गयता दृश्यते एव ।
क्वचित् पावकसम्पर्कादाशुस्पर्शतः क्वचित् ।
क्वचित् सलिलसंसेकाद् गन्धोऽभिव्यज्यते भुवः॥ न च स्तिमितपवनापनोदनमात्र करणस्य संस्कार इष्यते यः सर्वसाधारणः 20 स्यात् । किन्त्वन्य एव नियतः प्रतिविषयं योग्यतालक्षणः ।
यत्पुनरभ्यधायि नभसि श्रोत्रेऽभ्युपगम्यमाने सर्वप्राणिनामेकमेव श्रोत्रं भवेद् इति, तदप्यसाधु, धर्माधर्मयोनियामकत्वात्, आकाशस्यापि घटाकाशवद
क एवमाह सहस्राक्ष इति । यस्य वि (?) सहस्रमणां सः यद्येवं वक्तुं शक्नुयात् 'न दृष्टः' इति, न पुनरल्पदर्शी द्विदृगिति ।
योग्यतालक्षणो नियतविषयग्रहणरूपकार्यानुमेयः ।
३८