________________
२६६
न्यायमञ्ज
[ तृतीयम् अपि च स्तिमितसमीरणापसरणमेव करणस्य संस्कारः। स चायं तद्देशव्यवस्थितसकलतद्विषयसाधारण एव।।
यथा जवनिकापायप्राप्तप्रसरमीक्षणम् । रङ्गभूमिषु तद्देशमशेषं वस्तु पश्यति ॥ तथा प्रसरसंरोधिसमीरोत्सारणे सति ।
श्रोत्रं तद्देशनिःशेषशब्दग्राहि भविष्यति ॥ आकाशञ्च श्रोत्रमाचक्षते भवन्तः, तच्च विभु निरवयवं चेति, क्वचिदेव तस्मिन् संस्कृते सति सर्वे च तदैव संस्कृतकरणाः प्राणिनः सम्पन्ना इति सर्व एव
शृणुयुः। विषये तु संस्क्रियमाणे तस्यानवयवस्य व्यापिनश्च संस्कृतत्वात् सर्वत्र श्रवण10 मिति । मद्रेष्वभिव्यक्तो गोशब्दः कश्मीरेष्वपि श्रूयेत । न हि तस्याधारद्वारक
संस्कारः आकाशवदनाश्रितत्वात्, आकाशाश्रितत्वपक्षेऽपि तदेकत्वात्। नापि भागशः संस्क्रियते गोशब्दः तस्य निरवयवत्वात् । उक्तं हि
अल्पीयसा प्रयत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्ण वा सकलं स्फुटमिति ॥ उभयसंस्कारपक्षे तु दोषद्वयस्याप्यनतिवृत्तिः सर्वेषां ग्रहणं सर्वत्र श्रवणमिति । न च समानदेशानां समानेन्द्रियग्राह्याणाञ्च भावानां प्रतिनियतव्यञ्जक- . व्यङ्गयत्वमुपलब्धम् ।
___ गृहे दधिघटीं द्रष्टुमानीतो गृहमेधिना।
अपूपानपि तद्देशान् प्रकाशयति दीपकः ॥
20
स्तिमितसमीरणेति । स्तिमितो निश्चलो यः श्रोत्रवर्ती समीरणः ।
न हि तस्याधारद्वारक इति । यद्यपि शब्दो व्यापी तथापि तदाधाराणामव्यापितत्वात् तद्द्वारेण यः संस्कारः स कथं सकलदेशावस्थितशब्दसंस्कार इति शङ्कामनेन निराकरोति ।
आकाशवदनाश्रितत्वात इति । केषाञ्चिन्मीमांसकानामाकाशवदनाश्रितः शब्दः।
यदि वा नैव गृह्णातीति । मन्दोच्चारिते नैव वा गृह्यते, गृह्यते चेत् सकल एव वर्णो गृह्यते न तु तस्य भागा गृह्यन्त इत्यर्थः ।
15