________________
आह्निकम् ]
प्रमाणप्रकरणम्
२६५
10
कैश्चितिरोहिते भावादित्यप्रामाण्यमुच्यते । तदसत् तत्प्रतीत्येव तिरोधाननिषेधनात् ॥ जीवति त्वन्मतेऽप्येष शब्दस्त्रिचतुरान् क्षणान् । प्रत्यभिज्ञा च कालेन तावता न न सिद्धयति ॥ एकक्षणायुषि त्वस्मिन् प्रतीतिरतिदुर्लभा।
न खल्वजनकं किञ्चिद् वस्तुज्ञानेन गृह्यत इति ॥ क्षणभङ्गभङ्गे वक्ष्यते, अपि च
यथा निशीथे रोलम्बश्यामलाम्बुदडम्बरे। प्रत्यभिज्ञायते किश्चिदचिरद्युतिधामभिः ॥ तथाविरतसंयोगविभागक्रमजन्मभिः ।
प्रत्यभिज्ञायते शब्दः क्षणिकैरपि मारुतः ॥ शब्दानामभिव्यक्तौ दोषाः
अत्राह, मारुतंरित्यनेनोपोद्घातेन साधु स्मृतम् । तिष्ठतु तावत्प्रत्यभिज्ञानं, प्रथममेव शब्दस्य यनियतग्रहणं तदभिव्यक्तिपक्षे दुर्घटम् ।
नित्यत्वाव्यापकत्वाच्च सर्वे सर्वत्र सर्वदा ।
शब्दाः सन्तीति भेदेन ग्रहणे किं नियामकम् ॥ ध्वनयो हि नाम संयोगविभागविशेषिता वायवः, वायुवृत्तयो वा संयोगविभागास्ते हि शब्दस्य व्यञ्जका इष्यन्ते, तैश्च करणं वा संस्क्रियते कर्म वा द्वयं वा सर्वथा च प्रमादः।
करणे संस्कृते तावत् सर्वशब्दश्रुतिर्भवेत् । गकारायैव संस्कार इत्येष नियमः कुतः॥
20
तिरोहिते भावादिति। तिरोहिते विनष्टे शब्दे प्रत्यभिज्ञानस्य भावात्, तस्य निर्विषयत्वे शब्दाविनाशितायां न प्रामाण्यमित्यर्थः ।
अनेनोपोद्घातेन प्रस्तावेन।