________________
२६३
आह्निकम् ]
प्रमाणप्रकरणम् ___ कथं तहि शब्दभेदाभावे भिन्ने अर्थप्रतिपत्ती अरण्यमारण्यमिति, ध्वनि कृते एव ते भविष्यतः, अशब्दधर्मस्य दीर्घत्वादेः कथमर्थप्रतीत्यङ्गत्वमिति चेत्, तुरगवेगवद्भविष्यति।
यथा तुरगदेहस्थो वेगः पुंसोऽर्थसिद्धये।
परधर्मोऽपि दीर्घादिरेवं तस्योपकारकः ॥ इतश्चैतदकारसामान्यमनुपपन्नम्, अत्वं हि न दीर्घप्लुतयोरनुगतं भवति, आत्वं न ह्रस्वदीर्घयोरिति, तस्मादेकत्वाद् वर्णानां नावान्तरजातयः सम्भवन्ति । शब्दत्वन्तु नियतार्थप्रतिपत्तौ व्यभिचारीत्यतो नात्र धूमादिन्यायः ।
तेनार्थप्रत्ययः शब्दादन्यथा नोपपद्यते । न चेद् नित्यत्वमित्यस्मिन्नर्थापत्तेः प्रमाणता ॥ अनुमानादन्यथात्वमर्थापत्तेर्न दृश्यते।
तेनानुमानमप्येतत् प्रयोक्तुं न न शक्यते ॥ शब्दनित्यतायां युक्तयन्तरम्
तदिदमुच्यते शब्दो धर्मो, नित्य इति साध्यो धर्मः, सम्बन्धग्रहणसापेक्षार्थप्रतिपादकत्वाद् धूमादिजातिवत्, तदिदमुक्तं "नित्यस्तु स्याद्दर्शनस्य परार्थत्वा- 15 दिति"। एवं सम्बन्धग्रहणात् प्रभृति आ अर्थप्रतिपत्तेरवस्थितस्य विनाशहेत्वभावादात्मादिवन्नित्यत्वम् । न ह्ययमवयवविनाशान्नश्यति शब्दो निरवयवत्वात् । तदेव कथमिति चेद् उच्यते
स्वल्पेनापि प्रयत्नेन यदि वर्णः प्रयुज्यते ।
यदि वा नानुभूयेत शकलो नानुभूयते ॥ सावयवे हि वस्तुनि द्विधावयवा दृश्यन्ते आरब्धकार्या अनारब्धकार्याश्चेति ।
नित्यस्तु स्यादिति । दर्शनस्योच्चारणस्य परार्थत्वादर्थप्रतिपत्त्यर्थत्वात्, न चागृहीतसम्बन्धोऽर्थं प्रत्याययतीति नित्यः। नित्यस्तु स्यादिति सूत्रे तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः।
आरब्धकार्या अनारब्धकार्याश्चेति । आरब्धं कार्यं पटलक्षणं यैस्त आर- 25