SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २९२ न्यायमञ्जयां [ तृतीयम् शिशौ पठति वृद्ध वा स्त्रीजने वा शुकेऽपि वा। वक्तृभेदं प्रपद्यन्ते न वर्णव्यक्तिभिन्नताम् ॥ तथा च 'गर्गः पठति, माठरः पठती'त्युच्चारयितृभेद एव प्रतीयते, अमुं गविशेषमेष पठतीति नोच्चार्यमाणभेदः। एककर्तृ प्रयोगेऽपि तस्यैवोच्चारणं पुनः । ___गङ्गागगनगर्गादौ न रूपान्तरदर्शनम् ॥ द्रुतादिभेदबोधोऽपि नामभेदनिबन्धनः। न व्यक्तिभेदजनितः शाबलेयादिभेदवत् ॥ अभ्युपगतेऽपि गत्वसामान्ये तस्य द्रुतादिभेदप्रतिभासे सत्यपि न भिन्नत्व10 मेषितव्यम्, औपाधिक एव तस्मिन् भेदप्रतिभासो वर्णनीयः, सोऽयं गकारव्यक्तावेव कथं न वर्ण्यते, तस्या एवैकत्वादेकप्रत्ययो भेदभ्रमस्तु व्यञ्जकाधीन इति । एवं हि कल्पना लघीयसी भवति, तस्मान्न नानागकारवृत्ति गत्वसामान्यं नाम किश्चिदस्ति । अपि च गोगुरुगेहादौ भिन्नाजुपश्लेषकारित एव व्यञ्जनेषु बुद्धिभेदः 15 परोपाधिरवधार्यते सोऽयमक्ष्वपि परोपाधिरेव भवितुमर्हति, वर्णाश्रितत्वाद् व्यञ्जनभेदप्रत्ययवदिति, तस्माद् गत्ववद् अत्वसामान्यमपि नास्ति । यत्पुनरष्टादशभेदमवर्णकुलमुच्यते तदोपाधिकमेव, ह्रस्वदीर्घप्लुतसंवृतविवृतादिबुद्धीनां ध्वनिभेदानुविधायित्वात् । विवृतः संवृतादन्यो न गकाराद् वकारवत् । अपि त्वकार एवासौ प्रतिभाति यथा तथा ॥ न भिन्नत्वमेषितव्यमिति । अन्यथा अभिन्नप्रत्ययानिर्वाहात् । व्यञ्जनभेदप्रत्ययवदिति । यथा व्यञ्जनानां हलां भेदप्रत्यय उपाधिकृत इति । यत्पुनरष्टादशेति । ह्रस्वदीर्घप्लुतभेदेन त्रयोऽकारास्ते च प्रत्येकं सानुनासिक निरनुनासिकत्वेन षट् सम्पद्यन्ते ते च षट् प्रत्येकमुदात्तानुदात्तस्वरितभेदेनाष्टादश । सम्पद्यन्ते । अवर्णकुलमिति । व्यञ्जकभेदमनुवर्तमानानां वर्णानामेककण्ठादिस्थानावच्छेदेन समुदायवाची कुलशब्दो यथैकदेशाद्युपाधिको वृक्षेषु वनशब्दः । विवृतो दीर्घप्लुतरूपो वर्णः । संवृताद् ह्रस्वाद् वर्णात् ।
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy