________________
२९१
आह्निकम् 1 प्रमाणप्रकरणम्
२९१ सादृश्यजनितत्वे च मिथ्यवार्थगतिर्भवेत् ।
धूमानुकारिनीहारजन्यज्वलनबुद्धिवत् ॥ तस्मात् सादृश्यनिबन्धनार्थप्रतीत्यनुपपत्तेर्गोशब्द एव स्थायीत्यभ्युपगमनीयम् । न च गोशब्दत्वादिकं सामान्यमस्ति
ननु यथा धूमव्यक्तिभेदेऽपि धूमत्वमतिमवलम्ब्य सम्बन्धग्रहणादिव्यवहारनिवहनिर्वहणम् एवमिह गकारादिवर्णव्यक्तिभेदेऽपि सामान्य निबन्धनस्तनिर्वाहः करिष्यते इति।
मैवं तत्र हि धूमत्वसामान्यं विद्यते ध्रुवम् । शब्दत्वं व्यभिचार्यत्र गोशब्दत्वन्तु दुर्घटम् ॥ भिन्नरयुगपत्कालैरसंसृष्टै विनश्वरः। वर्णैर्घटयितुं शक्यो गोशब्दावयवी कथम् ॥ अनारब्धे च गोशब्दे गोशब्दत्वं क्व वर्त्तताम् ।
पटत्वं नाम सामान्यं न हि तन्तुषु वर्तते ॥ न वा गत्वादिकं सामान्यम्
ननु मा भूद् गोशब्दत्वं सामान्यं भिन्नाकारगकारादिव्यक्तिवृत्तिभिरेव गत्वादिजातिभिः कार्य पूर्वोक्तमुपपद्यते, एतदपि नास्ति । गत्वादिजातीनामनुपपत्तेः । भेदाभेदप्रत्ययप्रतिष्ठो हि व्यक्तिजातिप्रविभागव्यवहारः । इह चायमभेदप्रत्ययो वणक्यनिबन्धन एव न जातिकृतः, भेदप्रतिभासं व्यञ्जक भेदाधीनम, व्यञ्जकाद्युपाधिनिबन्धनत्वोपपत्तेः परस्परविभक्तस्वरूपतया हि शाबलेयबाहु- 20 लेयपिण्डाः प्रत्यक्षमुपलभ्यते, स्थिते च व्यक्तिभेद सर्वत्र गौरिति तदभेदप्रत्ययस्यानन्य विषयत्वादिष्यते एव गोत्वजातिः । इह पुनः
गकारव्यक्तयो भिन्नाः शाबलेयादिपिण्डवत् ।
क्व नाम भवता दृष्टा येनासां जातिमिच्छसि ॥ शब्दत्वं व्यभिचारीति । सर्ववर्णेषु भावान्नियतार्थप्रतिपत्तेरभावात् । व्यञ्जकभेदाधीनमिति । यथैकमपि मुखं खड्गादिव्यञ्जकभेदान्नानेवोपलभ्यते।
15
25