________________
२९०
न्यायमञ्जयाँ
[ तृतीयम्
एवं दीर्घाध्वसापेक्षसम्बन्धाधिगमावधि ।
शब्दस्य जीवितं सिद्धमिति नाशुविनाशिता ॥ शब्दनित्यतायां न शब्दादर्थप्रतिपत्तिः सम्भाव्यते
भवतु वा नश्वरस्यापि शब्दस्य सम्बन्धग्रहणं तथाऽपि तस्मिन् गृहीत5 सम्बन्धे शब्दे विनष्टे सति कथमनवगतसम्बन्धाद् अभिनवाद् इदानीमन्यस्माच्छब्दादर्थप्रतिपत्तिः।
अन्यस्मिन् जातसम्बन्धे यद्यन्यो वाचको भवेत् ।
वाचकाः सर्वशब्दाः स्युरेकस्मिन् जातसंगतौ ॥
न च वक्ता व्यवहरमाणः तदैव शब्दं चोच्चारयति सम्बन्धं करोति चैतञ्च 10 व्युत्पादयति परञ्च व्यवहारयतीति। न हि युगपदिमाः क्रियाः भवितुमर्हन्ति,
एवमदर्शनात् । अथादौ सम्बन्धग्रहणे वृत्त तस्मिन् विनष्टेऽपि गोशब्दः स एवेति । न च भूयोऽवयवसामान्ययोगरूपसादृश्यं वर्णानाम् अनवयवानामुपपद्यते अभिनवस्य शब्दस्य स्वयमर्थवत्तानवधारणात् कथमयममुतः श्रोता प्रतिपद्यतेति शङ्कमानो वक्ता कथं प्रयोगं कुर्यात् । तर्हि यत्सदृशमसौ प्रयुङ्क्ते तस्याप्यन्यसादृश्यादेवार्थवत्तेति जगत्सर्गकालकृतस्य मूलभूतस्यार्थवतः शब्दस्य स्मरणं तन्मूलत्वाद् व्यवहारस्य, न चैवमस्ति, न च ततः प्रभृत्यद्य यावत् सादृश्यमनुवर्तते, तत्सदृश- . सदृशकल्पनायां मूलसादृश्यविनाशात्, विशेषतस्तु शब्दानाम् ।
भिन्नवक्तृमुखस्थानप्रयत्नकरणादिभिः । न निर्वहति सादृश्यं शब्दानां दूरत्तिनाम् ॥
20 क्रियते' इति । तर्हि यत्सदृशमसौ प्रयुक्त इति । यतः येनार्थः प्रतिपन्नः सोऽपि
साक्षादर्थवान् न भवति सम्बन्धाभावात् तेनार्थेनाभिनवोत्पन्नत्वेन तस्याप्यर्थवत्सादृश्येन गमकः।
मूलसादृश्यविनाशादिति । यथाहि-पितृसदृशः पुत्रस्तत्सदृशः तत्पुत्रो मूलपितुः सादृश्याद् दूरीभवन् दृश्यते यावद् अन्येऽपि तत्पुत्रतत्पुत्रास्तत्सादृश्यं मनागपि न 25 स्पृशन्तीति ।
भिन्नवक्तृमुखेति।रथानं ताल्वादि, प्रयत्न ईएत्स्पृष्टतादिः, करणं जिह्वामूलादि ।