________________
आह्निकम् ]
प्रयोक्तव्योऽस्मिन्नयमिति सूत्रार्थः । सिद्धे हिशब्देऽर्थे सम्बन्धे च तच्छास्त्रं प्रवृत्तमिति । अपि च क्षीरं दधित्वमुपैति न तु दधि क्षीरताम्, इह तु यकारोऽपि क्वचिद् इकारतामुपैति विध्यतीति सम्प्रसारणे सति, तस्मादसिद्ध एव वर्णानां प्रकृतिविकारभावः, नापि कारणवृद्धया वर्धते शब्दः, बलवताप्युच्चार्यमाणानि बहुभिश्च तावन्त्येवाक्षराणि, ध्वनय एव तथा तत्र प्रवृद्धा उपलभ्यते न वर्णा इति ।
शब्द नित्यतायामर्थापत्तेरेव प्रमाणत्वम्
प्रमाण प्रकरणम्
२८९
F
तस्मादनित्यतासिद्धिनैवं प्रायैरसाधनैः । शब्दस्य नित्यतायान्तु सैषार्थापत्तिरुच्यते ॥ शब्दस्योच्चारणं तावदर्थ गत्यर्थमिष्यते । न चोच्चारितनष्टोऽयमर्थं गमयितुं क्षमः ॥ सर्वेषामविवादोऽत्र शब्दार्थ व्यवहारिणाम् । यदि विज्ञातसम्बन्धः शब्दो नार्थस्य वाचकः ॥ वेद्यमानः स सम्बन्धः स्थविरव्यवहारतः । द्राघीयसा न कालेन विना शक्येत वेदितुम् ॥ शब्दार्थयोः सम्बन्धज्ञानमपि शब्द नित्यत्वसाधकम्
तथाहि 'गां शुक्लामानय' इत्येकवृद्धप्रयुक्तशब्दश्रवणे सति चेष्टमानमितरं वृद्धमवलोकयन् बालस्तटस्थः तस्यार्थप्रतीति तावत् कल्पयति आत्मनि तत्पूर्वकायाश्चेष्टाया दृष्टत्वात्, प्रमाणान्तरासन्निधानाद् एतद्वृद्धप्रयुक्तशब्दसमनन्तरश्व प्रवृत्तेः, तत एव शब्दात् किमप्यनेन प्रतिपन्नमिति मन्यते, ततः क्षणान्तरे तमर्थ तेन वृद्धेनानीयमानमुपलभमान एव बुध्यते अयमर्थोऽमुतः शब्दादनेनावगत इति । स चार्थोऽनेकगुणक्रियाजातिव्यक्तचादिरूपसंकुल उपलभ्यते, शब्दोऽप्यनेक पदकदम्बकात्मा श्रुतः तत् कतमस्य वाक्यांशस्य कतमोऽर्थांशो वाच्य इत्यावापोद्वाप - योगेन बहुकृत्वः शृण्वन् गुणक्रियादिपरिहारेण गोत्वसामान्यमस्मन्मते त्वन्मते वा तद्वन्मात्रं गोशब्दस्याभिधेयं निर्धारयतीति ।
20
10
15
5
करोत्यर्थो न तुत्पादयेति । सिद्धे हि शब्देऽर्थे इति । सिद्धे नित्य इत्यर्थः । तदुक्तम् 'सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्यप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः
३७