________________
२८८
न्यायमञ्ज
[तृतीयम् क्वचित् किश्चित्साधनमुच्यते। प्रयत्नप्रेरितकोष्ठयमारुतसंयोगविभागानन्तरमुप. लभ्यमानः शब्दस्तत्कार्य एवेति गम्यते। उच्चारणादूर्ध्वभनुपलब्धरनित्यः, शब्दः, न ह्येनमुच्चरितं मुहूर्तमप्युपलभामहे तस्माद् विनष्ट इत्यवगच्छामः । करोतिशब्दव्यपदेशाच्च कार्यः शब्दः, शब्दं कुरु शब्दं मा कार्करिति व्यवहारः प्रयुञ्जते ते नूनमवगच्छन्ति कार्यः शब्द इति। नानादेशेषु च युगपदुपलम्भात् तेषु तेषु देशेषु क्रियमाणानामुपपद्यतेऽनेकदेशसम्बन्ध इति । शब्दान्तरविकार्यत्वाच्च अनित्यः शब्दः, दध्यत्रेति इकार एव यकारीभवति । सादृश्यात् स्मृतेश्चावगम्यते विकार्यत्वाच्च द्राक्षेक्षुरसादिवदनित्यत्वमस्येति । कारणवृद्धया च वर्धमानत्वात् बहुभिर्महा
प्रयत्नरुच्चार्यमाणो महान् गोशब्द उपलभ्यते अल्पैरल्पप्रयत्नरुच्चार्यमाणोऽल्प 10 इत्येतच्च तन्तुवृद्धया वर्धमानः पटो ज्ञातः। शब्दनित्यत्वसिद्धिः
सिद्धे नित्यत्वे प्रयत्नानन्तरमुपलम्भाद् अभिव्यक्तिः प्रयत्नकार्या, शब्दस्य नोत्पत्तिरिति गम्यते। तदेवं व्यङ्गयेऽपि प्रयत्नानन्तरमुपलम्भसम्भवादन
कान्तिकत्वम्, अभिव्यञ्जकानाञ्च पवनसंयोगविभागानामचिरस्थायित्वान्न 15 चिरमुच्चारणादूर्ध्वमुपलभ्यते शब्दः। प्रयोगाभिप्रायश्च करोतिशब्दव्य
पदेशोऽस्य भविष्यति 'गोमयानि कुरु' 'काष्ठानि कुवि तिवत्, तस्मात् सोऽपि नैकान्तिकः । नानादेशेषु युगपदुपलम्भनमेकस्य स्थिरस्यापि शब्दस्य विवस्वत इव सेत्स्यति । विकार्यत्वं त्वसिद्धमेव शब्दान्तरत्वात्, दधिशब्द इकारान्तः संहिताव्यतिरिक्तविषयवृत्तिः, यकारस्त्वयमन्य एव अचि परतः संहिताविषये प्रयुज्यमानः, न पुनरिकार एवायं यकारीभूतः क्षीरमिव दधिभूतमुपलभ्यते । न हि इचुयशास्तालव्या इति स्थानसादृश्यमात्रेण तद्विकारत्ववर्णनमुचितम्, अप्रकृतिविकारयोरपि नयनोत्पलपल्लवयोः सादृश्यदर्शनात् । इको यणचि इति पाणिनिस्मृतेरपि नायमर्थः इकारो यकारीभवति क्षीरमिव दधीभवति, किन्त्वस्मिन् विषयेऽयं वर्णः
___ सादृश्याद् दध्यत्रेति इ-कारवद् य-कारस्यापि तालव्यत्वात् । स्मृतेर्व्याकरण2. लक्षणाया "इको यणचि” इत्यादिकायाः। प्रयोगाभिप्रायश्चेति । 'शब्दं कुरु' 'शब्द
प्रयोगं कुरु' इति, अतो न ‘शब्दमुत्पादय' इति; यथा 'गोमयान् कुरु' संस्कारार्थो न