________________
प्रमाणप्रकरणम्
२८७
आह्निकम् ]
___२८७ शब्दानां नित्यत्वान्न वेदानामीश्वरकर्तृत्वं वक्तृत्वं वेति मीमांसकाः
ननु त्रैलोक्यनिर्माणनिपुणे परमेश्वरे । सिद्धेऽपि तत्प्रणीतत्वं न वेदस्यावकल्पते ॥ पदे शब्दार्थसम्बन्ध वेदस्य रचनासु वा। कर्तृत्वमस्याशङ्कयेत तच्च सर्वत्र दुर्वचम् ॥ वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते। वर्णानाञ्चाविनाशित्वात् कथमीश्वरकार्यता॥ सम्बन्धोऽपि न तत्कार्यः स हि शक्तिस्वभावकः । शब्दे वाचकशक्तिश्च नित्य वाग्नाविवोष्णता ॥ रचना अपि वैदिक्यो नैताः पुरुषनिर्मिताः। कविप्रणीतकाव्यादिरचनाभ्यो विलक्षणाः ॥ एवञ्च वेदे स्वातन्त्र्यमीश्वरस्य न कुत्रचित् । कामन्तु पर्वतानेष विदधातु भिनत्तु वा ॥ स्वतः प्रामाण्यसिद्धौ तु वेदे वक्त्रनपेक्षताम् । वदामो, न तु सर्वत्र पुरुषद्वेषिणो वयम् ॥ अनपेक्षत्वमेवातो वेदप्रामाण्यकारणम् ।
युक्तं वक्तापि वेदस्य कुर्वन्नपि करोतु किम् ॥ शब्दानित्यत्ववादिमतखण्डनार्थ पूर्वपक्षवर्णनम्
कथं पुनरमी वर्णाः श्रुतमात्रतिरोहिताः ॥
नित्या भवन्तु कोऽयं वा शब्दस्वातन्त्र्यदोहदः ॥ उच्यते
शब्दस्य न ह्यनित्यत्वे युक्तिः स्फुटति काचन ।
प्रत्यक्षमपत्तिश्च नित्यतां त्वधिगच्छतः॥ तथाहि, अनित्यहेतव इमे किल कथ्यन्ते प्रयत्नानन्तरमुपलब्धेः कायः शब्द इति । कार्यत्वानित्यत्वयोः परस्पराविनाभावादेकतरसिद्धावन्यतरसिद्धिर्भवत्येवेति 25
20