________________
[ तृतीयम्
२८६
न्यायमञ्जयां ___ इत्येतदपि न साम्प्रतम् । तिष्ठतु वा सर्गप्रलयकालः, अद्यत्वेऽपि यथोक्तनयेन तदिच्छामन्तरेण प्राणिनां कर्मविपाकानुपपत्तेरवश्यमीश्वरोऽभ्युपगन्तव्यः, इतरथा सर्वव्यवहारविप्रलोपः । तदुक्तम्
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥ इति जगद्वैचित्र्यं कर्माधीनं न तु ईश्वरेच्छाधीनम्
नन्वेवं तहि ईश्वरेच्छैव भवतु की संही च किं कर्मभिः ? मैवम् । कर्मभिविना जगद्वैचित्र्यानुपपत्तेः । कर्मनरपेक्ष्यपक्षेऽपि त्रयो दोषा दर्शिता एवेश्वरस्य निर्दयकर्मचोदनानर्थक्यमनिर्मोक्षप्रसङ्गश्चेति,नस्मात् कर्मणामेव नियोजने स्वातन्त्र्यमीश्वरस्य, न तन्निरपेक्षम् । किं तादृशैश्वर्येण प्रयोजनमिति चेन्न, न प्रयोजनानुवत्ति प्रमाणं भवितुमर्हति, किं वा भगवतः कर्मापेक्षिणोऽपि न प्रभुत्वमित्यलं कुतर्कलवलिप्तमुख-नास्तिकालापपरिमर्दैन।
तस्मात् कुताकिकोद्गीतदूषणाभासवारणात् । सिद्धस्त्रैलोक्यनिर्माणनिपुणः परमेश्वरः॥ ये त्वीश्वरं निरपवाददृढप्रमाणसिद्धस्वरूपमपि नाभ्युपयन्ति मूढाः । पापाय तैः सह कथापि वितन्यमाना जायेत नूनमिति युक्तमतो विरन्तुम् ॥ यस्येच्छयैव भुवनानि समुद्भवन्ति तिष्ठन्ति यान्ति च पुनविलयं युगान्ते । तस्मै समस्तफलभोगनिबन्धनाय
नित्यप्रबुद्धमुदिताय नमः शिवाय ॥ न प्रयोजनानुवति प्रमाणमिति । प्रमाणात् तथाविधं तदैश्वर्यमवगम्यते, यदि तन्निष्प्रयोजनं तत्प्रमाणं किं करोति । न हि लोष्ट्रदर्शनस्य निष्प्रयोजनत्वात् सुवर्णदर्शनं तदिति कल्प्यते।
नित्यप्रबुद्धमुदिताय । नित्यो यः प्रबोधो ज्ञानम्, नित्यश्च यो मोदः सुखं तद्युतो यः।
25