________________
आह्निकम् ] प्रमाणप्रकरणम्
२८५ यथाह भट्टः 'कर्मभिः सर्वबीजानां तत्सिद्धः सिद्धसाधनमिति । नैतदेवम् । नैते अधिष्ठातारो भवितुमर्हन्ति, बहुत्वाद् विरुद्धाभिप्रायत्वाच्च। तथा टेक एव कश्चित् स्थावरादिविशेषो राजादिविशेषो वा प्राणिकोटोनामनेकविधसुखदुःखोपभोगस्य हेतुः स तैर्बहुभिरव्यवस्थिताभिप्रायः कथमारभ्येत? तेषामेकत्र संमानाभावात् । मठपर्षदोऽपि क्वचिदेव सकलधारणोपकारिणि कार्ये भवत्यैकमत्यम्, न सर्वत्र । महा- 5 प्रासादाद्यारम्भे बहनां तक्षादीनामेकस्थपत्याशयानुवत्तित्वं दृश्यते । पिपीलिकानामपि मृत्कूटकरणे तुल्यः कश्चिदुपकारः प्रवर्तकः, स्थपतिवदेकाशयानुवत्तित्वं वा कल्प्यम् । इह तु तत्स्थावरं शरीरं केषाञ्चिदुपकारकारणमितरेषामपि भूयसामपकारकारणमिति कथं तैः सम्भूय सृज्यते ? अनधिष्ठितानान्त्वचेतनानामारम्भकत्वमयुक्तमेव तस्मादवश्यमेकस्तेषां कर्मणामधिष्ठाता कल्पनीयः, यदिच्छामन्तरेण 10 भवन्त्यपि कर्माणि न फलजन्मने प्रभवन्ति । ईश्वरस्यैकत्वमेव ___अत एवैक ईश्वर इष्यते न द्वौ बहवो वा, भिन्नाभिप्रायतया लोकानुग्रहोपघातवैशसप्रङ्गात्, इच्छाविसवादसम्भवेन च ततः कस्यचित् सङ्कल्पविघातद्वारकानैश्वर्यप्रसङ्गाद्, इत्येक एवेश्वरः । तदिच्छ्या कर्माणि कार्येषु प्रवर्त्तन्ते इत्युपपन्नः । सर्गः । तदिच्छाप्रतिबन्धात् स्तिमितशक्तीनि कर्माण्युदासते इत्युपपन्नः प्रलयः। एवञ्च यदुक्तम्
तस्मादद्यवदेवात्र सर्गप्रलयकल्पना।
समस्तक्षयजन्मभ्यां न सिद्धत्यप्रमाणिका ॥ ___ कर्मभिः सर्वबीजानामित्यस्य पूर्वमर्धम् 'कस्यचिद्धेतुमात्रस्य यद्यविष्ठा- 20 तृतीच्यते' इति । कर्मभिस्तत्सिद्धरधिष्ठातृत्वसिद्धेः । बीजकार्यत्वाद् बीजशब्देन कार्यमत्रोच्यते, उपभोगसाधनत्वाद् वा कार्य बीज मुक्तम्, कर्मद्वारेण चात्मेच्छापूर्वकत्वात् सर्वकर्मणामात्मेच्छाधिष्ठातृत्वसिद्धिर्विवक्षिता। मठच्छात्राणां भिन्नाभिप्रायाणामपि क्वचित् कार्ये सङ्गानेऽपि नास्ति सर्वत्रैकमत्यमिति प्रदर्शयितुमाह मठपर्षदोऽपीत्यादिना।
तस्मादद्यवदेवेति । समस्तक्षयजन्मभ्यां समस्तक्षयजन्मनी आश्रित्य । अतीतः कालो धर्मी समस्तक्षयजन्मयुक्तो न भवति, कालत्वात्, अद्यतनकालवदिति दृष्टान्तः ।
25