________________
२८४
न्यायमञ्जयां
[ तृतीयम् अस्माभिरप्युक्तमेव
यथा ह्यचेतनः काय आत्मेच्छामनुवर्तते ।
तदिच्छामनुवय॑न्ते तथैव परमाणवः ॥ ईश्वरस्य सृष्टिप्रलयकर्तृस्वभावत्वकथनम्
यस्तु प्रयोजनविकल्पः, किमर्थं सृजति जगन्ति भगवानिति ? सोऽपि न पेशलः। स्वभाव एवैष भगवतो यत् कदाचित् सृजति कदाचिच्च संहरति विश्वमिति। कथं पुननियतकाल एषोऽस्य स्वभाव इति चेद्, आदित्यं पश्यतु देवानां प्रियः, यो नियतकालमुदेत्यस्तमेति च। प्राणिकर्मसापेक्षमेतद्विवस्वतो रूपमिति चेद, ईश्वरेऽपि तुल्यः समाधिः ।
क्रीडार्थेपि जगत्सर्गे न होयेत क्रियार्थता।
प्रवर्त्तमाना दृश्यन्ते न हि क्रीडासु दुःखिताः॥ अथ वा अनुकम्पयैव सर्गसंहारावारभतामीश्वरः।
नन्वत्र चोदितम्, अनुपपन्नन्तु अनादित्वात् संसारस्य शुभाशुभसंस्कारानुविद्धा एवात्मानस्ते च धर्माधर्मनिगडसंवृतत्वादपवर्गपुरद्वारप्रवेशमलभमानाः कथं नानु15 कम्प्याः ? अनुपभुक्तफलानां कर्मणां न प्रक्षयः । सर्गमन्तरेण च तत्फलभोगाय
नरकादिसृष्टिमारभते दयालुरेव भगवान् । उपभोगप्रबन्धेन परिश्रान्ता नाम् अन्तरान्तरा विश्रान्तये जन्तूनां भुवनोपसंहारमपि करोतीति सर्वमेतत् कृपानिबन्धनमेव।
ननु च युगपदेव सकलजगत्प्रलयकरणमनुपपन्नम्, अविनाशिनां कर्मणां फलोपभोगप्रतिबन्धासम्भवाद् इति चोदितम् । न युक्तमेतत् । ईश्वरेच्छाप्रतिबद्धानां कर्मणां स्तिमितशक्तीनामवस्थानात् । तदिच्छाप्रेरितानि कर्माणि फलमादधति तदिच्छाप्रतिबद्धानि च तत्रोदासते। कस्मादेवमिति चेत् ? अचेतनानां चेतनानधिष्ठितानां स्वकार्यकरणानुपलब्धः।
जीवात्मनाश्च कर्मानधिष्ठातृत्वम् 25 ननु तेषामेव कर्मणां कर्तार आत्मानश्चेतना अधिष्ठातारो भविष्यन्ति ?