________________
आह्निकम् ] प्रमाणप्रकरणम्
२८३ धर्मस्तु भूतानुग्रहवतो वस्तुस्वाभाव्याद् भवन् न वार्यते, तस्य च फलं परमार्थनिष्पत्तिरेव। सुखन्त्वस्य नित्यमेव, नित्यानन्दत्वेनागमात् प्रतीतेः, असुखितस्य चैवंविधकार्यारम्भयोग्यत्वाभावात्।
ननु ज्ञानानन्दवदिच्छापि नित्या चेदीश्वरस्य तहि सर्वदा तदिच्छासम्भवात् सर्वदा जगदुत्पत्तिरिति जगदानन्त्यप्रसङ्गः । सर्गेच्छानित्यत्वाच्च संहारो न 5 प्राप्नोति । संहारेच्छाया अपि नित्यत्वाभ्युपगमेन नक्तन्दिनं प्रलयप्रबन्धो न विरमेदेव जगतामिति, नैष दोषः । अनात्ममनःसंयोगजत्वादिच्छा स्वरूपमात्रेण नित्यापि कदाचित् सर्गेण कदाचित संहारेण वा विषयेणानुरज्यते।सर्गसंहारयोरन्तराले तु जगतः स्थित्यवस्थायामस्मात् कर्मण इदमस्य सम्पद्यतामितीच्छा भवति प्रजापतेः। प्रयत्नस्तस्य सङ्कल्पविशेषात्मक एव । तथा चागमः 'सत्यकामः सत्यसङ्कल्पः' इति । काम 10 इतीच्छा उच्यते, सङ्कल्प इति प्रयत्नः। तदेवं नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छाप्रयत्नधर्माः सन्तीश्वरे । चत्वारस्तु दुःखद्वेषाधर्मसंस्कारा न सन्तीत्यात्मविशेष एवेश्वरो न द्रव्यान्तरम् । आह च पतञ्जलिः 'क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषविशेष ईश्वरः' इति । सोऽयमागमादनुमानात् पक्षधर्मतो वा विशेषलाभ इति स्थितम् ।
ईश्वरस्य शरीराभावसाधनम्
यत् पुनर्विकल्पितं सशरीर ईश्वरः सृजति जगद्, अशरीरो वेति ? तत्राशरीरस्यैव स्रष्टत्वमस्याभ्युपगच्छामः ।
ननु क्रियावेशनिबन्धनं कर्तृत्वं न पारिभाषिकम्, तत् अशरीरस्य क्रियाविरहात् कथं भवेत् ? कस्य च कुत्राशरीरस्य कर्तृत्वं दृष्टमिति ? उच्यते। ज्ञानचिकीर्षा- 20 प्रयत्नयोगित्वं कर्तृत्वमाचक्षते तच्चेश्वरे विद्यत एवेत्युक्तमेतत् । स्वशरीरप्रेरणे च दृष्टमशरीरस्याप्यात्मनः कर्तृत्वम् । इच्छामात्रेण च तस्य कर्तृत्वादनेकव्यापारनिवर्तनोपात्तदुर्वहक्लेशकालुष्यविकल्पोऽपि प्रत्युक्तः । नन्वत्रोक्तम्
कुलालवच्च नैतस्य व्यापारो यदि कल्प्यते । अचेतनः कथं भावस्तदिच्छामनुवर्तते ॥ इति ।