________________
२८२
5
न्यायमञ्जय
भवेयुः ?
[ तृतीयम्
अतश्च सर्वज्ञ ईश्वरः ।
पुंसामसर्ववित्त्वं हि रागादिमलबन्धनम् । न च रागादिभिः स्पृष्टो भगवानिति सर्ववित् ॥ इष्टानिष्टार्थसम्भोगप्रभवाः खलु देहिनाम् । रागादयः कथन्ते स्युनित्यानन्दात्मके शिवे ॥ मिथ्याज्ञानमूलाश्च रागादयो दोषास्ते कथं नित्यनिर्मलज्ञानवतीश्वरे
ईश्वरज्ञानादेर्नित्यत्वसाधनम्
नित्यं तज्ज्ञानं कथमिति चेत्, तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्य10 माणकर्माधीननानाप्रकारव्यवहारविरामप्रसङ्गात् । प्रलयवेलायां तहि कुतस्तन्नित्यत्वकल्पना इति चेन्, मैवम् । आप्रलयात् सिद्धे नित्यत्वे तदा विनाशकारणाभावादस्यात्मन इव तज्ज्ञानस्य नित्यत्वं सेत्स्यति । पुनश्च सर्गकाले तदुत्पत्तिकारणाभावादपि नित्यत्वं तज्ज्ञानानाम् । एवञ्च तत् अतीतानागतसूक्ष्मव्यवहितादिसमस्तवस्तुविषयम् न भिन्नम्, कर्मयौगपद्य विकल्पानुपपत्तेः । क्रमाश्रयणे क्वचिदज्ञातृत्वं स्यादिति व्यव15 हारलोपः । यौगपद्येन सर्वज्ञातृत्वे कुतस्त्यो ज्ञानभेदः ? प्रत्यक्षसाधर्म्याच्च तज्ज्ञानं प्रत्यक्षमुच्यते न पुनरिन्द्रियार्थसन्निकर्षोत्पन्नत्वमस्यास्ति, अजनकानामेवार्थानां सवितृप्रकाशेनेव ग्रहणात् । ज्ञानवदन्येऽप्यात्मगुणा येऽस्य सन्ति ते नित्या एव, मनः संयोगानपेक्षजन्मत्वात् ।
दुःखद्वेषास्तस्य तावन्न सन्त्येव । भावनाख्येन संस्कारेणापि न प्रयोजनम्, 20 सर्वदा सर्वार्थदशित्वेन स्मृत्यभावात् । अत एव न तस्यानुमानिकं ज्ञानमिष्यते ।
तुल्यधर्मयोगेन ययोस्तौ सखायौ तुल्यख्याती, समानं वृक्षमिव वृक्षं शरीराख्यं, परिषस्वजाते समाश्रित्य प्रवर्तेते; तयोरेकः पिप्पलमिव पिप्पलं स्वकर्मफलं स्वादु मिष्टं स्वादु च कृत्वा भुङ्क्ते, अनश्नन्नन्यः कर्माभावेन तत्फलस्याभावात्, अभिचाकशीति सर्वमभिपश्यन्नास्ते । यथा सुपणौं पक्षिणावेकं वृक्षं समाश्रयत इत्युपमयैवमभिहितम् । संसार्यात्मनान्तु सुगति25 त्वानुवादो बाहुल्यापेक्षया, न तु सर्वदा संसार्यात्मनः सुगतय इति । द्वा इत्यत्र औकारस्य छान्दसो डादेशः ।