________________
आह्निकम् ]
प्रमाणप्रकरणम्
२८१
अन्ये त्वन्वयव्यतिरेकिहेतुमूलकेवलव्यतिरेकिबलेन विशेषसिद्धिमभिदधति । देहादिव्यतिरिक्तात्मकल्पनमिव सुखदुःखादिगतेन कार्यत्वेन वर्णयिष्यते-पृथिव्यादिकार्यम्, अस्मदादिविलक्षणसर्वज्ञेककर्तृकम्, अस्मदादिषु बाधकोत्पत्तौ सत्यां कार्यत्वादिति।
अपरे पक्षधर्मताबलादेव विशेषलाभमभ्युपगच्छन्ति। न हीदृशं परिदृश्यमानम् 5 अनेकरूपम् अपरिमितम् अनन्तप्रागिगतविचित्रसुखदुःखसाधनं भुवनादिकार्यम् अनतिशयेन पुंसा कतु शक्यमिति। यथा चन्दनधूममितरधूमविसदृशमवलोक्य चन्दन एव वह्निरनुमीयते तथा विलक्षणात् कार्यात् विलक्षण एव कर्तानुमास्यते, यथा स्तवरकेभ्य इव तत्कुशलः कुविन्दः, यथा च कुलालः सकल कल शादिकार्यकलापोत्पत्तिसंविधानप्रयोजनाद्यभिज्ञो भवंस्तस्य कार्यचक्रस्य कर्ता तथा इयतस्त्रैलो- 10 क्यस्य निरवधिप्रागिसुखदुःखसाधनस्य सृष्टिसंहारसंविधानं सप्रयोजनं बहुशाखं जानन्नेव स्रष्टा भवितुमर्हति महेश्वरः, तस्मात् सर्वज्ञः।
अपि च यथा नियतविषयवृत्तीनां चक्षुरादीन्द्रियाणामधिष्ठाता क्षेत्रज्ञः तदपेक्षया सर्वज्ञः, एवं सकलक्षेत्रज्ञकर्मविनियोगेषु प्रभवन्नीश्वरस्तदपेक्षया सर्वज्ञः । तथा चाह व्यासः
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ मन्त्रश्च तदर्थानुवादी पठ्यते
द्वा सुपर्णा सयुजा सखाया समान वृक्षं परिषस्वजाते।
तयोरेकः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ इति । स्तवरकेभ्य इवेति । पट्टसूत्रनिमितचित्ररूपः परः स्तवरक उच्यते ।
अक्षरः परमात्मा, कूटस्थोऽविचलरूपतया नित्य इत्यर्थः। लोकत्रयमाविश्य अधिष्ठातृत्वेनाभिव्याप्प।
द्वा सुपर्णा इति । द्वौ क्षेत्रज्ञपरमात्मानौ, सुपणौं शोभनगती, सह युज्यते नियम्पनियन्तृभावेनेति सयुजौ परस्परसम्बद्धौ, समानं ख्यानं प्रसिद्धिर्भातृत्वामूर्तत्वादि
25
३६