________________
२८०
न्यायमञ्ज
[ तृतीयम् विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति संपतत्रावाभूमी जनयन् देव एकः ॥ इति । तथा
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति सर्वं न हि तस्य वेत्ता तमाहुरग्रयं पुरुषं महान्तम् ॥
इति । श्रुतौ पठ्यते । ततः सर्वस्य कर्ता सर्वज्ञ ईश्वरो ज्ञाप्यते। न च कार्ये एवार्थे वेदः प्रमाणमिति मन्त्रार्थवादानामतत्परत्वमभिधातुमुचितम्, कार्ये इव सिद्धेऽप्यर्थे वेदप्रामाण्यस्य वक्ष्यमाणत्वात् । न चेतरेतराश्रयम् आगमैकशरणत्वाभावादीश्वरसिद्धः।
विश्वतश्चक्षुरिति । विश्वस्मिन् विश्वतः। विश्वस्मिन् यानि चक्षषि तानि चढूंषि यस्य स विश्वतश्चक्षुः। एवं विश्वसम्बन्धीनि मुखान्येव नुखं यस्य, विश्वसम्बन्धिनो बाहव एव बाहू यस्य, तत्पादा एव पादौ यस्येति विग्रहीतव्यम् । स द्यावापृथिवी जनयन् बाहुभ्यां बाहुसाध्येन ब्यापारेण द्विपदं मनुष्यादीन् संधमति संयुनक्ति, अनेकार्थ
त्वाद् धातूनां संपूर्वो धमतिः संयोजनार्थः । पतत्रिणः पक्षिणस्तु पक्षः पक्षव्यापारेण 15 संधमति संयुनक्ति । तदधीना द्विपदां चतुष्पदा स्वस्वव्यापारे प्रवृत्तिरिति दर्शयति । अत्र
संशब्देन व्यवहितेनापि धमतीत्यस्य सम्बन्धः, छन्दसि परेऽपि” “व्यवहिताश्च" इति स्मरणात् ।
अपाणिपादो जवन इति । स्वतः पाणिपादरहितोऽपि जवनो ग्रहीता पादसाध्यवेगगमनयुक्तो हस्तसाध्यग्रहणयुक्तश्च; चक्षुःश्रवणरहितश्च तज्जन्यदर्शनश्रवणयुक्तः; स वेत्ति वेद्यममनस्कोऽपि सर्वज्ञत्वात्, न च तस्यास्ति वेत्ता ततोऽधिको यस्मात् । तमाहुरग्रय प्रधानं कारणम्, महान्तं विभुम् । क्रियाशक्तिः प्रकाशशक्तिश्चेतरात्मनां करणद्वारिका, भगवतः पुनः स्वत इति दर्शयति।
____ अथ ‘एवंभूतोऽयं रौद्रश्चरुः प्रशस्तो यस्यैवंविधो रुद्रो देवता' इति देवतास्तुति
द्वारेण कर्मस्तुतिपर्यवसायित्वादेवंप्रायाणां मन्त्रार्थवादानां कथं स्वार्थनिठतेति ? तत्राप्याह 28 न च कार्ये एवार्थे वेदः प्रमाणमित्यादि। न चेतरेतराश्रयमिति । सर्त श्वरे
कर्तर्यस्य प्रामाण्यम्, सति चैतत्प्रामाण्ये ईश्वरकर्तृकत्वसिद्धिरिति ।