________________
प्रमाणप्रकरणम्
२७६
आह्निकम् ] विरुद्धस्य हेत्वाभासस्याभावात् । अभ्युपगमे वा सर्वानुमानोच्छेदप्रसङ्गात् । श्रोत्राद्यनुमानेऽपि यथोदाहृते शक्यमेवमभिधातुम् । यादृगेव लवनक्रियायां दात्रादि करणं काठिन्यादिधर्मकमवगतं तादृगेव श्रोत्रादि स्यात् तद्विलक्षणकरणसाध्यतायान्तु साध्यविकलो दृष्टान्तः, छेदनादिक्रियाणामतीन्द्रियकरणकार्यत्वादर्शनादिति ।
अथ क्रियामा करणमात्रेण व्याप्तमवगतमिति तावन्मात्रमनुमापयति, 5 तदिहापि सन्निवेशमात्रमधिष्ठातृमात्रेण व्याप्तमुपलब्धमिति तावन्मात्रमेवानुमापयतु, विशेषाणान्तु न तल्लिङ्गमस्ति यन्न बाधकम्, 'अनित्यः शब्दः कृतकत्वादि'त्ययमपि श्रावणत्वादि शब्दस्य विशेषजातं बाधत एव, धूमोऽपि पर्वताग्निविशेषान् कांश्चिन् महानसाग्नावदृष्टानपहन्त्येव । तस्माद्यथानिर्दिष्टसाध्यविपर्ययसाधनमेव विरुद्धो हेतुर्न हि विशेषविपर्ययावहः । प्रकृतहेतुश्च साध्यविपर्ययस्याकर्तृपूर्वकस्य न 10 साधकः, अश्वोऽयं विषाणित्वादितिवत् । तस्मान्न विरुद्धः, नापि कालात्ययापदिष्टः, प्रत्यक्षागमयोर्बाधकयोरदर्शनात् । प्रत्युतागममनुग्राहकमिहोदाहरिष्यामः। नापि सत्प्रतिक्षोऽयं हेतुः, संशयबीजस्य विशेषाग्रहणादेरिह हेतुत्वेनानुपादानात् । नाप्ययमप्रयोजको हेतुः यथा परमाणूनामनित्यत्वे साध्ये मूर्त्तत्वममिधास्यते । न हि मूर्त्तत्वप्रयुक्तमनित्यत्वम्, इह तु कार्यत्वप्रयुक्तमेव सकर्तृकत्वंतत्र तत्रोपलब्धमित्यत एवानु- 15 मानविरोधस्येष्टविघातकृतश्च न कश्चिदिहावसरः, प्रयोजके हेतौ प्रयुक्ते तथाविधपांसुप्रक्षेपप्रयोगानवकाशात् । तस्मात् परोदीरिताशेषदोषविकलकार्यानुमानमहिम्ना नूनमीश्वरः कल्पनीयः। सकललोकसाक्षिकमनुमानप्रामाण्यमपीक्षणीयम् । अनुमानप्रामाण्यरक्षणे च कृत एव परिकरबन्धः प्रागिति सिद्ध एवेश्वरः । अन्यदपि तदनुमानमन्यरुक्तम्, महाभूतादिव्यक्तं चेतनाधिष्ठितं सत् सुखदुःखे जनयति 20 रूपादिमत्त्वात् तूर्यादिवत्, तथा पृथिव्यादीनि भूतानि चेतनाधिष्ठितानि सन्ति धारणादिक्रियां कुर्वन्ति युग्यादिवदिति । अत्रापि दोषाः पूर्ववदेव परिहर्त्तव्याः।
सर्वज्ञेश्वरसाधनम्
यत्पुनरवादि 'कर्तृसामान्य सिद्धौ वा विशेपावगतिः कुतः' इति तत्र केचिदा- 25 गमाद् विशेषप्रतिपत्तिमाहुः