________________
न्यायमञ्जयां
[ तृतीयम् शब्दाद्युपलब्धिक्रियाणामवधारणात् ताभिरेव व्यभिचारात पक्षण च पृथिव्यादिना व्यभिचारचोदनमत्यन्तमलौकिकम् ।
ननु वस्तुस्थित्या पर्वतादयोऽपि विपक्षा एव । त्वया तु तेषां पक्ष इति नाम कृतम्, न च त्वदिच्छया वस्तुस्थितिविपरिवर्तते।
नन्वेवं शब्दाद्युपलब्धयोऽपि वस्तुस्थित्या विपक्षा एव, तासामपि पक्ष इति नामकरणमेव स्यात् ? न । तासां करणभावनिश्चयानुत्पादान्न विपक्षत्वम् । पर्वतादावपि कञभावनिश्चयानुत्पादान्न विपक्षत्वम् । तेषु कर्ता नोपलभ्यते इति चेत् शब्दा. धुपलब्धिकारणमपि नोपलभ्यते एव। कारणमदृश्यमानत्वादेव नोपलभ्यते, न
नास्तित्वादिति चेत्, कर्ताप्यदृश्यत्वादेव नोपलभ्यते न नास्तित्वात् । अनुमानात् 10 करणमुपलभ्यते तद्व्यतिरेकेण क्रियानुपपत्तेरिति चेत्, कर्ताप्यनुमानादुपलप्स्यते कर्तारमन्तरेण कार्यानुपपत्तेः।
तेनानुमानगम्यत्वान्न कर्तुर्नास्तिताग्रहः । तदभावाद् विपक्षत्वं क्षित्यादेरपि दुर्भणम् ॥ लिङ्गात् पूर्वन्तु सन्देहो दहनेऽपि न वार्यते । तथा सति प्रपद्येत धूमोऽप्यननुमानताम् ॥ अथास्य लिङ्गाभासत्वं क्षित्यादौ कत्रदर्शनात् । धूमेऽपि लिङ्गाभासत्वं तत्र देशेऽग्न्यदर्शनात् ॥ ननु तं देशमासाद्य गृह्यते धूमलाञ्छनः । अनयैव धिया साधो चरस्व शरदां शतम् ॥ यत् पश्चाद्दर्शनं तेन किं लिङ्गस्य प्रमाणता ।
अनथित्वाददृष्टे वा कृशानौ किं करिष्यसि ॥ तस्मात् सर्वथा नायमनकान्तिको हेतुः। यदपि विशेषविरुद्धत्वमस्य प्रतिपादितं तदप्यसमीक्षिताभिधानम्, विशेष
अथास्य लिङ्गाभासत्वमिति । पूर्वार्धेन परमतमाशङ्क्योत्तरार्धेन 'ननु तं देशमासाद्य' इति समर्थयति ।
यदपि विशेषविरुद्धत्वमिति । असर्वज्ञकतृ पूर्वकाः क्षित्यादयः कार्यत्वाद् घटादिवद् इति ।
20
25