________________
आह्निकम् ]
संदिग्धे हि न्यायः प्रवर्तते, नानुपलब्धे, न निर्णीते इत्युक्तमेतत् । संदिमान एव चार्थः पक्ष उच्यते । किश्चित् कालं तस्य पक्षत्वं यावन्निर्णयो नोत्पन्नः । तदुत्पादे तु नूनं सपक्ष विपक्षयोरन्यतरत्रानुप्रवेक्ष्यत्यसौ । अतश्च पक्षावस्थायां तेन व्यभिचारोद्भावनमसमीचीनम् ।
प्रमाण प्रकरणम्
ननु निश्चितविपक्षवृत्तिरिव संदिग्धविपक्षवृत्तिरपि न हेतुरेव तदेवं वीरुधा- 5 दिषु संदिग्धेऽपि कर्त्तरि सन्निवेशस्य दर्शनाद् अहेतुत्वात् । नैतत्सारम् । सदसत्पावकतया पर्वते संदिग्धे विपक्षे वर्त्तमानस्य धूमस्या हेतुत्वप्रसङ्गात् । सर्व एव च संशयाद् विपक्षा एव जाता इति पक्षवृत्तयो हेतव इदानीं विपक्षगामिनो भवेयुरित्यनुमानोच्छेदः ।
अथ पक्षीकृतेऽपि धर्मिणि सदसत्साध्यधर्मतया सन्दिग्धे वर्त्तमानो धूमादिर- 10 न्यत्र व्याप्तिनिश्चयाद् गमक इष्यते, तर्हि सदसत्कर्तृकतया संदिग्धेऽपि वसुन्धरावनस्पत्यादौ वर्त्तमानं कार्यत्वमन्यत्र व्याप्तिनिश्चयाद् गमकमिष्यताम्, विशेषो वा
वक्तव्यः ।
अन्ये मन्यन्ते किम् अकृष्टजातस्थावरादिव्यभिचारस्थानान्वेषणेन ? पृथिव्यादिभिरेवात्र व्यभिचारः, अस्य व्याप्तिग्रहणस्य प्रतीघातात् । व्याप्तिर्हि गृह्यमाणा सकलसपक्षक्रोडीकारेण गृह्यते । इत्यश्च तस्यां गृह्यमाणायामेव यद्यत् सन्नि देशविशिष्टं तत्तद्बुद्धिमत् कर्तृ कमित्यस्मिन्नेवावसरे सन्निवेशवन्तोऽपि कर्त्तृ शून्यतया शैलादयश्चेतसि स्फुरन्ति । यथा कृतकत्वेन वह्नेरनुष्णतानुमाने यद् यत् कृतकं तत्तदनुष्णमिति व्याप्तिपरिच्छेदवेलायामेव वह्निरुष्णोऽकृतक इति हृदयपथमवतरति, तत्र व्याप्त गृह्यमाणायां ततो हेतोः षण्ढादिव पुत्रजननमघटमानमेव वन्ध्यानुमानमिति ।
२७७
तदेतदनुपपन्नम् । विशेषोल्ले खरहित सामान्यमात्र प्रतिष्ठितस्य व्याप्तिपरिच्छेदस्यानुमानलक्षणे निर्णीतत्वात् । अग्न्यनुष्णतानुमाने हि न व्याप्तिग्रहणप्रतिघातादप्रामाण्यमपि तु प्रत्यक्षविरोधादित्युक्तमेतत् । अपि चायं पृथिव्यादौ कर्त्रनुमाननिरासप्रकार: 'शब्दाद्युपलब्धयः करणपूर्विकाः क्रियात्वात् छिदिक्रियावदि त्यत्र श्रोत्रादिकरणानुमानेऽपि समानः । प्रतिबन्धावधारणवेलायामेव करणशून्यानां
=
15
20
25