________________
२७६
न्यायमजऱ्यां
[ तृतीयम् अथ जगद्वैचित्र्यं कर्मव्यतिरेकेण न घटते इति कर्मणामदृश्यमानानामपि कारण वं कल्प्यते। तत्र यद्येवमचेतनेभ्यः कारकेभ्यश्चेतनानधिष्ठितेभ्यः कार्योत्पादानुपपत्तेः कर्तापि चेतनस्तेषामधिष्ठाता कल्प्यताम् । तस्मात् स्थावराणामकर्तृकत्वाभावान्न विपक्षता इति न तैर्व्यभिचारः ।
यदप्युक्तम् येन येन व्यभिचार उद्भाव्यते स चेत्पक्षेऽन्तर्भावयिष्यते क इदानीमनुमानस्य नियम इत्येतदपि न साधु। यदि हि भवान् निश्चिते विपक्षे वृत्तिमुपदर्शयेत् कस्तं पक्षेऽन्तर्भावयेत्। न हि विप्रत्वे पुंस्त्वस्य, नित्यतायां वा प्रमेयत्वस्व व्यभिचारे चोद्यमाने वेधसापि विपक्षः पक्षीकतु" शक्यः, वादीच्छ्या वस्तुव्यवस्थाया अभावात् । इह तु स्थावरादौ कर्बभावनिश्चयो नास्तीत्युक्तम् ।
ननु स्थावरेषु पक्षीकृतेष्वपि व्यभिचारो न निवर्तते एव। न हि सपक्षविपक्षव्यतिरेकेण तात्त्विकः पक्षो नाम कश्चिदस्ति वस्तुनो द्वैरूप्यानुपपत्तेः । वस्तुस्थित्या सकर्तृकाश्चेद् वनस्पतिप्रभृतयः सपक्षा एव ते। न चेहि विपक्षा एव, न राश्यन्तरं समस्तीति।
उच्यते । पक्षाभावे सपक्षविपक्षवाचोयुक्तिरेव तावत् किमपेक्षा? पक्षानुकूलो न हि सपक्ष उच्यते तत्प्रतिकूलश्च विपक्ष इति । यद्येवं वक्तव्यं तहि कोऽयं पक्षो नामेति
साध्यधर्मान्वितत्वेन द्वाभ्यामप्यवधारितः। सपक्षस्तदभावेन निश्चितस्य विपक्षता ॥ विमतो यत्र तु तयोस्तं पक्षं सम्प्रचक्ष्महे । वस्तुनो द्वयात्मकत्वन्तु नानुमन्यामहे वयम् ॥ वादिबुद्धयनुसारेण स्थितिः पक्षस्य यद्यपि ।
तथापि व्यवहारोऽस्ति वस्तुनस्तन्निबन्धनः॥ तावतैव नास्तिकताभ्युपगमस्तेषामपाकृतो भवति, परलोकानभ्युपगम एव हि नारितकत्वं यतः।
वस्तुनो द्वैरूप्यानुपपत्तेरिति । यथा यस्य नित्यत्वं स नित्यो यस्य तु तदभावः सोऽनित्यो न पुननित्यानित्योऽन्यः क्वचिदस्ति, एवं यस्य साध्यसम्बन्धः स सपक्षो यस्य तु तदभावः स विपक्षो न पुनस्तृतीयः कश्चिदपि राशिविद्यत इति भावः ।
20