________________
प्रमाणप्रकरणम्
आह्निकम् ]
२७५ ननु तत्र धूमो धूम इत्यनुवृत्तविकल्पबलेन कल्पितमपोहस्वभावं सामान्यमभ्युपगतम् । इहापि सन्निवेशविकल्पानुवृत्तेः त्वत्कल्पितमपोहरूपमेव सामान्य मिष्यताम् । अपि च सकर्तृकत्वाभिमतेष्वपि संस्थानेषु न सर्वात्मना तुल्यत्वं प्रतीयते, न हि घटसंस्थानं पटसंस्थानं चतुःशालसंस्थानञ्च सुसदृशमिति । संस्थानसामान्यन्तु पर्वतादावपि विद्यत एवेति सर्वथा 'यादृग्' इत्यवाचको ग्रन्थः।
यदपि व्यभिचारोद्भावनमकृष्टजातैः स्थावरादिभिरकारि तदपि न चारु, तेषां पक्षीकृतत्वात् । पक्षेण च व्यभिचारचोदनायां सर्वानुमानोच्छेदप्रसङ्गः ।
ननु च पृथिव्यादेरुत्पत्तिकालस्य परोक्षत्वात् कर्ता न दृश्यते इति तदनुपलब्ध्या तदसत्त्वनिश्चयानुपपत्तेः कामं संशयोऽस्तु, वनस्पतिप्रभृतीनान्तु प्रसवकालमद्यत्वे न वयमेव पश्यामः, न च यत्नतोऽप्यन्वेषमाणाः कर्तारमेषामुपलभामहे। 10 तस्मादसौ दश्यानुपलब्धर्नास्त्येवेत्यवगच्छामः । अपि च येन येन वयं व्यभिचारमुद्भावयिष्यामस्तं तं चेत्पक्षीकरिष्यति भवान सुतरामनुमानोच्छेदः, सव्यभिचाराणामप्येवमनुमानत्वानपायात् ।
उच्यते। स्थावराणामुत्पत्तिप्रत्यक्षत्वेऽपि कर्तुरदृश्यत्वमेवाशरीरत्वनिश्चयात् । अशरीरस्य तहि तदुत्पत्तावव्याप्रियमाणत्वात् कर्तृत्वमपि कथमिति चेद्, एतदग्रतो 15 निर्णेष्यते । अदृश्यस्य च कर्तुरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेः नाकृष्टजातवनस्पतीनामकर्तृकत्वमिति विपक्षता।
यत्तूक्तं परिदृश्यमानक्षितिसलिलादिकारणकार्यत्वात् स्थावराणाम्, किमदृश्यमानकर्तृकल्पनयेति चेत्, तदपेशलम् । परलोकवादिभिरदृश्यमानानां कर्मणामपि कारणत्वाभ्युपगमात् । बार्हस्पत्यानान्तु तत्समर्थनमेव समाधिः ।
सव्यभिचाराणामपीति । तथाहि प्रमेयत्वादयोऽप्यनित्यत्वसिद्धये उपादीयमाना येन येन नित्येन व्यभिचारदर्शनादनैकान्तिकतां प्रायन्ते तस्य तस्य पक्षीकरणात् सम्यग् हेतुतां व्रजेयुः।
अदृश्यस्य च कर्तुरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेरिति । पिशाचादिवदिति भावः।
तत्समर्थनम् परलोकसमर्थनम्, तस्मिन् समर्थित एव ते निराकृता भवन्ति ।
25