________________
२७४
5
10
उच्यते । यादृगिति न बुद्धयामहे । धूमो हि महानसे कुम्भदासी फूत्कारमारुतसन्धुक्ष्यमाणमन्दज्वलनजन्मा कृशप्राय प्रकृतिरुपलब्धः । स यदि पर्वते प्रबलसमीरणोल्लसित हुतवहप्लुष्यमाणमहामहीरुहस्कन्धेन्धनप्रभवो बहुलबहुल: खमण्डलमखिलमाक्रामन्नुपलभ्यते तत् किमिदानीमनलप्रमिति मा कार्षीत् ? अथ विशेषरहितं 15 धूममात्रमग्निमात्रेण व्याप्तमवगतमिति ततस्तदनुमानम् । इहापि सन्निवेशमात्रं कर्तृमात्रेण व्याप्तमिति ततोऽपि तदनुमीयताम् ।
20
न्यायमञ्जय
[ तृतीयम्
ननु कर्त्रविनाभावितया यथाविधस्य सन्निवेशस्य शरावादिषु दर्शनं तादृशमेव सन्निवेशमुपलभ्य क्वचिदनुपलभ्यमानकर्तृके कलशादौ कर्त्रनुमानमिति युक्तम् । अयं त्वन्य एव कलशादिसन्निवेशात् पर्वतादिसन्निवेशः । नात्र सन्निवेशसामान्यं किञ्चिदुपलभन्ते लौकिकाः । सन्निवेशशब्दमेव साधारणं प्रयुञ्जते । न च वस्तुनोरत्यन्तभेदे सति शब्दसाधारणतामात्रेण तदनुमानमुपपद्यते । न हि पाण्डुतामात्रसाधारणत्वेन धूमादिवन्मुकुलरजोराशेरपि कृशानुरनुमातुं शक्यत इति । तदुक्तम् सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् । सन्निवेशादि तत्तस्माद्युक्तं यदनुमीयते ॥ वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः । न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने ॥ इति ।
25
ननु सन्निवेशशब्दसाधारण्यमात्रमत्र, न वस्तुसामान्यं किञ्चिदस्ति । भिक्षो ! धूमेऽपि भवद्दर्शने किं वस्तुसामान्यमस्ति ? मा भूद्वस्तुसामान्यम्, आकाशकालादिव्यावृत्तिरूपन्तु संव्यवहारकारणमस्त्येव । हन्त ! तर्हि प्रकृतेऽपि असन्निवेश व्यावृत्तिरूपं भवतु सामान्यम्, आकाशकालादिविलक्षणरूपत्वात् पृथिव्यादेः ।
नावश्यम्' इति स व्यायः; व्यापकस्तु अनित्यत्वाख्यः समः कृतकत्वेन, अभ्यधिकश्च धूमादग्निः असत्यपि धूमे तस्य भावात् ।
,
सिद्धं यादृगिति । कर्त्रन्वयव्यतिरेकानुविधानि यादृक् सन्निवेशविशेषादि दृष्टं तस्माद् यदनुमीयते कर्तृजातं तद् युक्तमिति तात्पर्यार्थः । शब्दसाम्यादभेदिन इति । सन्निवेशशब्दसाम्याद् घटादिसन्निवेशात् कर्तुरनुमितिरयुक्ता, यथा धूमोऽपि पाण्डुर्भवतीति तच्छ्ब्दसाग्यादन्येनापि पाण्डुद्रव्येण नाग्नेरनुमानम् ।