________________
आह्निकम् ] प्रमाणप्रकरणम्
२७३ सारनि ठित एव पर्वतैकदेशे पर्वतस्य खण्डः पतित इति । वस्तुगतयोश्च कार्यत्व. विनाशित्वयोः समव्याप्तिकता वात्तिककृताप्युक्तव
तेन यत्राप्युभौ धमौं व्याप्यव्यापकसम्मतौ।
तत्रापि व्याप्यतैव स्यादङ्ग न व्यापिता मितेः ॥ इति वदता। तस्माद् विनाशित्वेनापि कार्यत्वानुमानात् तन्मतेऽपि न कार्यत्वमसिद्धम्। 5
शाक्योऽपि कार्यत्वस्य कथमसिद्धतामभिदधीत येन नित्यो नाम पदार्थः प्रणयकेलिष्वपि न विषह्यते ? तस्मात् सर्ववादिभिरप्रणोद्यं पृथिव्यादेः कार्यत्वम् । अथवा सन्निवेशविशिष्टत्वमेव हेतुमभिदध्महे यस्मिन् प्रत्यक्षत उपलभ्यमाने सर्वापलापलम्पटा अपि न केचन विप्रतिपत्तुमुत्सहन्ते । तस्मान्नासिद्धो हेतुः।
नुमानमपि स्यादित्याह वस्तुगतयोश्चेति । समव्याप्तिकतया 'यद् यत् कृतकं तत् 10 तदनित्यम्, यद् यदनित्यं तत् तत् कृतकम्' इति। नैव प्रयत्नानन्तरीयकत्वानित्यत्वयोः, 'यद् यदनित्यं तत् तत् प्रयत्नानन्तरीयकम्' इति कर्तुमशक्यत्वात्, विद्युदादौ व्यभिचारात् । वस्तुगतयोरिति वस्तुग्रहणेनाभावगतयोर्व्याप्त्यभावमाह; प्रध्वंसो हि कृतकोऽपि नानित्यः, प्रागभावश्चानित्योऽपि न कृतक इति ।
तेन यत्राप्युभौ धमौं इत्यस्य अन्त्यमर्वम् 'तत्रापि व्याप्यतैव स्यादङ्गं न 15 व्यापिता मिते.' इति । यद्यपि कामचारेण व्याप्यव्यापकभावः सिद्धयति तथापि व्याप्यत्वेन गमकत्वं वाच्यं न व्यापकत्वेन; " 'विषाण्ययं गोत्वात्' न 'विषाणित्वात् गौः'" इत्यादिषु व्याप्यत्वेनैव गमकत्वस्य दर्शनात् । तदुक्तम्
विस्पष्टं इष्टमेतच्च गोविषाणित्वयोमितौ।
व्याप्यत्वाद् गमिका गावो व्यापिका न विषाणिता । व्याप्यव्यापकयोश्च लक्षणम्
यो यस्य देशकालाभ्यां समो न्यूनोऽपि वा भवेत् ।
स व्याप्यो व्यापकस्तस्य समो वाऽभ्यधिकोऽपि वा ।। इति ।। यः कृतकत्वमादिर्यस्यानित्यत्वाग्न्यादेर्देशकालाभ्यां समो ‘यत्र देशे काले वा अनित्यत्वं तत्रावश्यं कृतकत्वम्' इति, न्यूनस्तु 'यस्मिन् देशे काले वाग्निस्तत्र धूमो 15
३५